पृष्ठम्:अलङ्कारमणिहारः.pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
116
अलंकारमणिहारे

स तथोक्तः । ‘कुण्डली गूढपात्' इत्यमरः । फणभृद्धरणीधरशेषाद्रिरेव फणभृद्धरणीधरश्शेषः । अत्र शिरआदिशब्दाः- श्लिष्टाः ‘शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मस्तके’ इति रत्नमाला ॥

 यथा वा--

 दुर्विषयगहनविपथे कर्षन्तं मां स्वरूपहरणाय । निगळय निखिलनियन्तर्हृदयैकागारिकं तव पदेऽब्जे ॥ १९९ ॥

 दुर्विषयगहनविपथे दुरिन्द्रियार्थदुःखदुरध्वे एव दुर्देशकान्तारकदध्वनि ‘विषयो गोचरे देशे, गहनं वनदुःखयोः’ इति च रत्नमाला । स्वरूपस्य भगवच्छेषतैकरूपस्य हरणायान्यथाकरणायैव स्वरूपहरणाय प्रशस्तवित्तापहाराय प्रशस्तं स्वं स्वरूपम् । ‘प्रशंसायां रूपप्' इति रूपप्प्रत्ययः । मां कर्षन्तं हृदयमेव एकागारिकं चोरं ‘ऐकागारिकट्चोरे' इति निपातनात्साधुः । एकमसहायमगारं प्रयोजनमस्य मुमुषिषोस्स ऐकागारिक इति विग्रहः । तव अब्जे पद्मसदृशे पदे चरण एव अब्जे जलमध्यस्थिते जलधिमध्यगत इति यावत् । पदे स्थाने कारागार इति यावत् । निगळय । अत्र निश्चलीकरणमेव निगळवत्तासंपादनम् । ‘निखिलनियन्तः' इतिसंबुद्धिरीदृशनिग्रहानुग्रहस्वतन्त्रताभिप्रायिकी । अत्रापि दुर्विषयादिशब्दाश्श्लिष्टाः ॥

 निरवयवरूपकं लक्षयति--

 निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम्।