पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] प्रथमं काण्डम्. प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे || मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः ॥ यशः कीर्तिः समंज्ञां च स्तवः स्तोत्रं स्तुतिनुतिः ॥ ११ ॥ आम्रेडितं द्विनिरुक्तमुचैर्घुष्टं तु घोषणा | काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥ अवर्णाक्षेपनिर्वादपरीवादापवादवत् || उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः ॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ ३७ 9-14 द्वे प्रतिवचनस्य | मिथ्याभियोगः अभ्याख्यानं द्वे “शतं मे धारयसि" इत्याद्यसत्या- क्षेपस्य | मिथ्याभिशंसनम् ॥ १० ॥ अभिशापः द्वे सुरापानादिमिथ्यापापोद्भाव- नस्य | अनुरागजः गुणानुरागोत्थः शब्दः प्रणाद इत्युच्यते एकम् | यशः कीर्तिः । “कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च " इति हैम: | समझा "समज्या समाज्ञा चेति पाठान्तरम् ” त्रयं कीर्तेः । स्तवः स्तोत्रं स्तुतिः नुतिः चत्वारि स्तुतेः ॥ ११ ॥ द्विवारं त्रिवार चोक्तं आम्रेडितमुच्यते । यथा “सर्पः सर्प इति " एकम् | उचै- घुष्टं घोषणा द्वे उचैर्घोषस्य । शोकभीतिकामादिभिर्ध्वनेर्यो विकारः सा काकु : एकम् ।। १२ ।। अवर्णः “वर्णः प्रशंसा तद्विरुद्धोऽवर्ण: " आक्षेपः निर्वादः । परीवाद: “परिवादः” अपवादः उपक्रोशः जुगुप्सा कुत्सा निन्दा गर्हण दश निन्दायाः । अपवादवदिति वत्प्रत्ययेन अवर्णादीनामुपक्रोशस्य चैकलिङ्गत्वं ज्ञापितम् । उपक्रोशान्ता अवर्णादयः पुंसीति तार्त्ययम् ॥ १३ ॥ पारुष्यं परुषो निष्ठुरभाषणं परुष एव पारुष्यम् | स्वार्थे ष्यञ् | अतिवाद: द्वे निष्ठुरभाषणस्य । अपकारमीः अपकारार्थक भाषणं “चौरोऽसि त्वां घातयिष्यामि” इत्यादि तद्भ- र्त्सनमुच्यते एकम् । कस्यचित् व्यक्तौ क्रोधपूर्वक दोषप्रतिपादनमुपालम्भः यः सनिन्दः निन्दायुक्त उपालम्भस्तत्र परिभाषणमित्येकम् । उपालम्भो द्वेधा । गुणा- विष्करणपूर्वको निन्दापूर्वकश्च । आद्यो यथा । महाकुलीनस्य तव किमुचितमिदम् । द्वितीयस्तु बन्धकीसुतस्य तनोचितमेवेदमिति । तत्र यो द्वितीयः स परिभाषणम् Digitized by Google 1.