पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6-9 . सटीकामरकोशस्य [शब्दादिवर्गः स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६॥ समस्या तु समासार्था किंवदन्ती जनश्रुतिः॥ वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः॥७॥ आख्याहे अभिधानं च नामधेयं च नाम च ॥ हूतिराकारणाहानं सहूतिर्बहुभिः कृता ॥८॥ विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् ॥ उपोद्घात उदाहारः शपन शपथः पुमान् ॥ ९॥ शिका" प्रहेलिका द्वयं यथापरैः संदिह्यते तादृशगुप्ताभिधानस्य । यथा । “पानीयं पातुमिच्छामि त्वत्तः कमललोचने। यदि दास्यसि नेच्छामि नो दास्यसि पिका- म्पहमिति" यदुक्तम् । “व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपना । यत्र बाह्या- र्थसंबद्धं कथ्यते सा प्रहेलिकेति"। या मन्वादिभिः प्रणीता धर्मसंहिता धर्मबो- धार्थ रचिता संहिता सा स्मृतिः । वेदार्थस्मरणपूर्वक रचितत्वात्स्मृतिरित्यर्थो- ऽपि । सरतेः क्तिन् एकम् । समाहृतिः संग्रहः । “विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रह तै विदुर्बुधाः" दर्य संग्रहग्रन्थस्य ॥६॥ या समासार्था पूरणीयार्था कविशक्तिपरीक्षणार्थमपूर्णतयैव पठ्यमानार्था वा सा समस्या । “यथा शतचन्द्र नभस्तलम्"। तत्पूरणं यथा । "दामोदरकरापातविहली- कृतचेतसा। दृष्ट चाणूरमल्लेन" इति । समस्या त्वसमासार्थेति पाठे तु अपरिपूर्णार्थे- त्यर्थः । किंवदन्ती " किंवदन्तिः" जनश्रुतिः जनेभ्यः श्रूयते । कर्मणि क्तिन् । द्वे चतुरक्षरे नामनी लोकप्रवादस्य । वार्ता प्रवृत्तिः वृत्तान्तः उदन्तः चत्वारि यथा- स्थितलोकवृत्तकथनस्य । आहयः ॥७॥ आख्या आहा अभिधानं नामधेयम् । मागरूपेति नामशब्दात् धेयप्रत्ययः । नाम षडू नाम्नः । हूतिः आकारणा आहान त्रयं आहानस्य । या बहुभिः कृता इतिः सा संहतिः एकम् ॥ ८॥ विरुद्धो वादः विवादः व्यवहारः । “वि नानाऽर्थेऽच संदेहे हरणं हार उच्यते । नानासंदेह- हरणाब्यवहारः प्रकीर्तितः" इति कात्यायनः । द्वे ऋणदानादिनिमित्तविविधवा- दस । उपन्यासः वाशुखं वाचोमुखमिव मुखमुपक्रमः द्वे वचनारंभस्य । उपोद्- पातः उदाहारः द्वे प्रकृतसिद्धार्थचिंतनस्य । तदुक्तम् । "चिन्ता प्रकृतसिधासु- पोद्घात प्रचक्षते" इति । उपोद्घातादि द्वे वक्ष्यमाणोपयोग्यर्थवर्णनस्पतिवा । शपने शपथः द्वयम् ॥९॥प्रश्नः अनुयोगः पृच्छा त्रय प्रश्नस्य । प्रतिवाक्यं उत्तर Digitized by Google