पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ४२६ घः । ‘भवेत्परिकरो व्राते पर्यंङ्कपरिवारयोः । प्रगाढगात्रिका- बन्धे विवेकारम्भयोरपि” इति विश्वः । 'यत्नारम्भौ परिकरौ' इति त्रिकाण्डशेषः ॥ मुक्ताशुद्धौ च तारः स्यात् तारयति । अच् । यद्वा तार्यते । अनेन वा | घव् ( ३ ३।१९) । घः (३।३।११८ ) वा | 'तारो मुक्तादिसंशुद्धौ | तरणे शुद्धमौक्तिके । तारं च रजतेऽत्युच्च खरेऽप्यन्यवदीरि- तम् । ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः | बुद्धदेव्यां मता तारा' इति विश्वः ॥ शारो वायौ स तु त्रिषु । करे शृणाति । ‘शू हिंसायाम्’ (ऋया ० प ० से ० ) । 'शणातेर्वा युवर्णनिवृत्तेषु' (वा० ३।३।२१ ) इति घन् । 'शारः स्याच्छ- बले वाच्यलिङ्गः पुंसि समीरणे' (इति तालव्यादौ मेदिनी) ॥ अथ प्रतिज्ञाजिसंविदापत्सु संगर: ॥ १६६ ॥ संगरणम् । संगीर्यते वा । अनेन वा । ‘गृ शब्दे' ( क्र्या॰ प० से०)। ‘ऋदोरप्’ । ‘पुंसि -' (३|३|११८) इति घो वा । 'संगरो युधि चापदि । क्रियाकारे विषे चाङ्गीकारे क्लीबं शमीफले' (इति मेदिनी) ॥ वेदभेदे गुह्यवादे मन्त्रः मन्यते । मन्त्रणं वा । 'मत्रि गुप्तभाषणे' (चु०प० से ० ) । घञ् (३।३।१९,१८)। ‘मन्त्रो वेदविशेषे स्याद्देवादीनां च साधने । गुह्यवादेऽपि च पुमान् ( इति मेदिनी ) ॥ मित्रो रवावपि । मेद्यति । ‘जिमिदा स्नेहने’ ( दि० प० से ० ) । 'अमिचि - मिदिशसिभ्यः ऋः’ (उ० ४।१६४) । 'मित्रं सुहृदि न द्वयोः । ( सूर्ये पुंसि ) ( इति मेदिनी) ॥ मखेषुयूपखण्डेऽपि स्वरुः इषुर्बाणः । स्वरति । स्वर्यते वा । 'स्त्र शब्दोपतापयोः' ( भ्वा० प० अ० ) । 'शस्त्रनिहि-' ( उ० १ | १० ) इत्युः । ‘स्वरुः पुमान्यूपखण्डे भिदुरेऽप्यध्वरे शरे' (इति मेदिनी) । यूपखण्डे यूपे तक्ष्यमाणे प्रथमपतिते शकले ॥ [ तृतीयं काण्डम् भावे (३|३|१८) वा | आडम्बं राति | 'आतोनुप-' (३१२॥ ३) इति कः | आडम्बयति वा । 'बाहुलकादरन्' | 'आड- म्बरः समारम्भे गजगर्जिततूर्ययोः' इति विश्वः ॥ अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥ १६८॥ अभिहरणम् । घञ् (३।३।१८ ) | अभिगम्याक्रमणमभि योगः संनहनं कवचादिधारणम् || १ – भाष्ये तु 'श' इत्यविभक्तिक एव निर्देश: सिद्धान्तकौमुद्यामपि तथैव व्याख्यातम् | स्याजंगमे परीवारः खङ्गकोशे परिच्छदे । जंगमे परिजने । परिवार्य तेऽनेन । 'परिवारणं वा' । घञ् (३।३।१८, १९) । 'उपसर्गस्य -' (६|३|१२३) इति दीर्घः । 'परीवारः परिजने खड्गकोशे परिच्छदे' ( इति मेदिनी ) | परिच्छद उपकरणम् ॥ विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥ १६९ ॥ विस्तीर्यते । 'स्तृञ् आच्छादने' (त्रया० उ० से ० ) | 'वृक्षा- सनयोर्विष्टरः' इति साधुः ॥ द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे । प्रतिहियतेऽनेन । अत्र । 'हृञ्' ( भ्वा० उ० अ० ) । घञ् (३|३|१९) 'उपसर्गस्य - ' ( ६ | ३ | १२२) इति दीर्घः । | गौरादिङोष (४।१।४१) । 'प्रतीहारो द्वारि द्वाःस्थेद्वाः स्थि- तायां तु योषिति' (इति मेदिनी) | अनन्तरे द्वाःस्थे ॥ | विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु ॥१७०॥ बिभर्ति | भरति वा । 'डुभृञ् ' ( जु० उ० अ० ) । 'भृञ्' ( भ्वा० उ० अ०) वा । 'कुर्भश्च' ( उ० ११२२) इति कुद्वित्वं च । यत्तु – भृञः शङ्कादित्वात् कुर्द्विर्वचनं च - इति मु कुटः । तदुक्तसूत्रादर्शनमूलकम् । निर्मूलं च । 'बभ्रुनी नकुले विष्णौ विपुले पिङ्गले त्रिषु' इति बलशर्मा | 'बभ्रुर्विशाले नकुले कृशानावजे मुनौ शूलिनि पिङ्गले च' इति विश्वः ॥ सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु सरति । 'सृ स्थिरे' (३|३|१७) इति घन् । 'सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले धने । न्याय्ये क्लीवं त्रिषु वरे' ( इति मेदिनी ) ॥ दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥ १७१ ॥ दुष्टमासमन्तादुदरमस्य | 'दुरोदरो द्यूतकारे द्यूताक्षपणः यो पुमान् | पणो ग्लाहः ॥ महारण्ये दुर्गपथे कान्तारः पुंनपुंसकम् । कान्ता अरा अस्य । यद्वा कान्तं मनोज्ञमृच्छति, इयर्ति गुह्येऽप्यवस्करः ॥ १६७ ॥ अबोऽधः कीर्यते । ‘कॄ विक्षेपे’ (तु० प० से ० ) 'ऋदोरप्' (३|३|५७) । कस्कादिः (८२३१४८) | 'वर्चस्केऽवस्करः' (६।१।४८) इति वा साधुः । ‘अवस्कारोऽपि वर्चस्के गुह्ये' वा । 'कर्मण्यण्' (३|२|१) | ‘कान्तारोऽस्त्री महारण्ये विले ( इति मेदिनी) । गुह्य उपस्थे ॥ आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते । आडम्ब्यते । ‘डबि क्षेपे’ चुरादिः । घन् (३।३।१९) । | दुर्गमवर्त्मनि । पुंसि स्यादिक्षुमेदे' ( इति मेदिनी ॥ १ - 'आश्रित्य दुर्गं गिरिकंदरोदरं क्रीडन्त्यमुष्मिन् सततं दरो दरम्' इति यमकान्निरुकारोऽपि, इति गोवर्धनः—इति मुक्कुटपीयूषौ । २- आधुनिकमेदिनी पुस्तके तु 'दुरोदरं द्यूतभेदे द्यूतकृत्पणयोः पुमा- नू' इति पाठो लभ्यते ।