पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थ वर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । ३९७ तीनिः ॥ (१) ॥*॥ 'खलगोरथात्' (४/२/५०) इति (वा० ३।२।१८० ) इति साधुः । 'जम्बुक: फेरवे नीचे यः ॥ (२) ॥*॥ पश्चिमाशापतावपि' (इति मेदिनी ) ॥ पृथुकौ चिपिटार्भकौ । पृथुरेव । 'संज्ञायां कन्' (५१३१७५ ) | प्रथते । 'प्रथ प्रख्याने ( भ्वा० आ० अ० ) । 'अर्भकपृथुकपाका वयसि ' (५१५३ उणा० ) इति साधुर्वा । 'पृथुकः पुंसि चिपिटे शिशौ स्यादमिधेयवत्' (इति मेदिनी) ॥ आलोकौ दर्शनोद्योतौ अथ मानुष्यकं नृणाम् । मनुष्याणां समूहः । 'गोत्रोक्षोष्ट्र -' (४|२|३९ ) इति बुञ् । 'प्रकृत्याके राजन्य- (वा० ६१४११६२) इति य - लोपो न ॥ ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ४२ ग्रामाणां समूहः जनानां समूहः । 'ग्रामजन-' (४२४२) इति तल् ॥ (१) ॥*॥ ( १ ) ॥ * ॥ धूमानां पाशानां गलानां च समूहः । 'पाशादिभ्यो यः' (४२१४९ ) || ( १ ) ॥ * ॥ (१) ॥ गलो बृहत्काशः ॥ (१) ॥*॥ अपिसाहस्रकारीषचार्मणाथर्वणादिकम् । सहस्राणाम् करीषाणाम् चर्मणाम् अथर्वणाम्, च समूहः । 'भिक्षादिभ्योऽण्' (४|२|३८ ) | आदिना 'वार्मणम्' 'आङ्गारम्' ॥ इति संकीर्णार्थवर्गः ॥ संकीर्णार्थस्वं च घञादीनां कर्तृमिन्ने कारके भावे च विधा- नातू, उणादीनां भावकारकेषु विधानात्, भावे प्रायेण विग्रहो दर्शितः, कारकेषु तु यथासंभवमूह्यः ॥ इति संकीर्णवर्गविवरणम् ॥ नानार्था: केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः । भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥ अनेकार्थाः केचिदत्रैव वर्गे कान्ता आदयो येषां खान्त - गान्तादीनां तेषु वर्गेषु कथिताः । यथा 'क' शब्दः । ये कान्तादयो येषु पर्यायेषु प्रचुरप्रयोगाः, ते तेषु कथिताः । अपिशब्दादिहापि । यथा 'नाक' - शब्दः । अतः पुनरुक्तिर्नो- द्भाव्या, इति भावः ॥ आकाशे त्रिदिवे नाकः न अकं दुःखमत्र ॥ लोकस्तु भुवने जने । लोक्यते । 'लोक दर्शने' ( भ्वा० आ० से ० ) । घन् (३।३।१८) ॥ पद्ये यशसि च श्लोकः श्लोक्यते । ‘श्लोकृ संधाते' ( भ्वा० आ० से ० ) घन् ( ३।३।१८ ) ॥ शरे खड्डे च सायकः ॥ २ ॥ स्यति । 'षोऽन्तकर्मणि' ( दि० प० अ० ) | ण्वुल् (३|१| १३३) । युक् (७|३|३३ ) ॥ जम्बुको ष्टुवरुणौ आलोकनम् । 'लोक दर्शने' (भ्वा० आ० अ० ) । घं (३|३|१८) 'आलोकस्तु पुमान्योते दर्शने वन्दि भाषणे ( इति मेदिनी ) ॥ मेरीपटहमानकौ ॥ ३ ॥ अनिति । 'अन प्राणने' ( अ० प० से ० ) | ण्वुल् (३॥ १॥ १३३) । 'आनकः पटहे भेर्या मृदङ्गे ध्वनदम्बुदे' ( इति मेदिनी) ॥ उत्सङ्गचिह्नयोरङ्कः अयतेऽनेन । 'अकि लक्षणे' (भ्वा० आ० से ० ) । 'हलश्च' (३|३|१२१) इति घञ् । 'अङ्को रूपक भेदागश्चिह्ने रेख|जिभू- षणे । रूपकाशान्तिकोत्सनंस्थानेऽकं पापदुःखयोः' ( इति मेदिनी) ॥ कलङ्कोऽङ्कापवादयोः । कलति । 'कल शब्दसंख्यानयोः' ( भ्वा० आ० से० ) | क्विप् (३।२।१७८)। कल् चासावकश्च । 'कलङ्कोऽकेऽपवादे च कालायसमलेऽपि च ' ( इति मेदिनी ) ॥ तक्षको नागवर्धक्योः तक्षति । 'तक्षू तनूकरणे' ( भ्वा०प० से० ) | ण्वुल (३।१।१३३) ॥ अर्कः स्फटिकसूर्ययोः ॥ ४ ॥ अर्क्यते । ‘अर्क स्तवने’ ( चु०प० से० ) 'अर्च पूजा- याम्' ( भ्वा० प० से० ) वा । घञ् (३|३|१८ ) | 'अर्को- ऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ' (इति मेदिनी) ॥ मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः । कायति । 'कै शब्दे' (भ्वा०प० अ० ) । कचति (ते) | ‘कच दीप्तौ (बन्धने)' ( भ्वा० आ० से ) । 'अन्येभ्योऽपि (वा० ३।२।१०१) इति डः । 'को ब्रह्मणि समीरात्मयमक्ष्- क्षेषु भास्करे । मयूरेऽग्नौ च पुंसि स्यात् सुखशीर्षजरेषु कम्' ( इति मेदिनी) ॥ १ - इदं तु न प्रकृतोपयोगि । 'अक' शब्दार्थबोधकत्वात् || २ - इदमसंगतम् । अर्क्यते, इति विग्रहविरोधात् । निष्ठायां न जमिति । 'जमु अदने' (भ्वा०प० से ० ) । 'मितवादयश्च' कुत्वाप्राप्तेश्च ।