पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५. धीवर्गः] दाक्षिणात्यव्याख्योपेतः ९५ (पा.) संविदागू: । आगूरिति पक्षे रेफान्तस्त्रीलिङ्गः, ऊकारान्तो वा ॥ प्रतिज्ञानम् । पुनर्ज्ञाननामानि ॥ नियम–समाधयः । अङ्गीकारनामानि ॥ ५ ॥ 1 A, adds अत्र संवित् आगूः संविदागूरिति विकल्पयन्ति. मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥ मोक्षेऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् । (वि.) मोक्ष इति – ज्ञायतेऽनेन ज्ञानम् । ‘ज्ञा अवबोधने’ । मोक्षबुद्धिनाम ॥ ‘विरूपं ज्ञानं विज्ञानम् । 'शिल्पशास्त्रादिबुद्धिनाम || आत्मनः पाशाभ्यां 'मुक्तत्वं मुक्तिः । आत्मानं पाशेभ्यो मोचयतीति वा । 'मुल मोक्षणे'। केवलावस्था' कैवल्यम् । निर्वाति 'निष्प्रपञ्चं गच्छत्यस्मिन्निति निर्वाणम् । निर्वान्ति सर्वाणि कर्माणि अत्रेति वा । 'वा गतिगन्धनयोः' । अतिशयेन प्रशस्यं 'श्रेयः । निश्चितं श्रेयोऽत्र निश्रेयसम् । नास्ति मृतं मरणमस्मिन्निति अमृतम् । आत्मानं पाशेभ्यो मोचयतीति मोक्षः । 'मोक्षते वा अस्मान् मोक्षः। 'मोक्ष निरसने' । पाशेभ्योऽपवर्जनम् ' अपवर्गः । 'वृजी वर्जने' । मोक्ष- नामानि || विरुद्धं ज्ञानम् 10 अज्ञानम् । विरुद्ध| 11 विद्या अविद्या । अहमित्यव्ययम् । अहमिति मतिः अहंमतिः । अनात्मनि देह दावबुद्धिनामानि 12 ॥ ६ ॥ 6 1 विज्ञायतेऽनेन D2, I, K1, W1; विशेषेण ज्ञायते Bg, Y. 4 पापेभ्यो D1, I. 3 मोचनं W1. यो गच्छति W2. 7 प्रशस्यतेतरां W2,Y. Bg, I, Ks; °वर्जित: A, B1, D1. 12 अहमिति Y. 2 शिल्पि° A, D1: 6 नि:स्पृहो 9 अपवर्ज्यते 5 केवलावस्थायाः यो भाव: Bp. 8 मोक्ष्यतेऽस्मिन् B1, Ks. 10 W2 adds अस्मिन्निति. 11 विरुध्यतेऽनया B1. (पा.) मोक्षे धीर्ज्ञानम् । मोक्षविषया धीः बुद्धिर्ज्ञानं स्यात् || अन्यत्र – शास्त्रयोः। तद॒तिरिक्तकलाशास्त्र विषया बुद्धिर्विज्ञानं स्यात् ॥ मुक्तिः– अपवर्गः । मोक्षनामानि ॥ अथाज्ञानम् – स्त्रियाम् | विषयेन्द्रियादौ आत्मबुद्धिनामानि ॥ ६ ॥ 1 ° कलाविषया A1. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अभी ॥ ७ ॥ गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥