पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५. धीवर्गः] दाक्षिणात्यव्याख्योपेतः ९३. (वि.) चित्ताभोग इति - चित्तस्य आभोग: परिपूर्णता चित्ताभोगः। मनसि करोतीति मनस्कारः । मनःपरिपूर्णतानाम ॥ चर्च्यतेऽनया चर्चा । ' चर्च अध्ययने' । संख्यायतेऽनयेति संख्या । 'ख्या प्रकथने ' । विचार्यतेऽनया विचारणा । परामर्श- नामानि ॥ अध्याहरतीति अध्याहारः । 'हृञ् हरणे'। 'तरन्त्यनेन संशय विपर्ययाविति तर्कः। ‘तू प्लवनतरणयोः' । ऊह्यते अनेनेति ऊहः । ‘ऊह वितर्के' | युक्तिप्रज्ञानामानि ॥ विचिकित्सतीति' विचिकित्सा । 'कित निवासे रोगापनयने च ' । 'उभयकोटौ संशेते इति संशयः । ‘ शीङ् स्वप्ने’ | संग्धि' सम्यक् बध्नातीति संदेहः । 'दिह उपचये' । स्थाणुर्वा पुरुषो वेति द्वौ पक्षौ परौ प्रधानभूतावस्मिन्निति द्वापरः । संदेहनामानि ॥ पुरुष- संदेहाभावं' नितरां 10 नयतीति निर्णयः । ‘णीञ् प्रापणे' । निश्चिनोतीति निश्चयः । ‘चिञ् चयने'। इदमित्थमिति बुद्धिनामनौ॥ २-३ ।। 6 1 •° पूरणता K2. 2 सम्यक् ख्यायते B2. 5 विविधं स्थापयितुमिच्छति B2. 9 ° संदेहभावं K1. K1, Kg, W1. 8 प्रसक्तौ B2. 3Y adds 'विचिर् पृथग्भावे'. 4 तरति 6 उभयोः रूपयो: By. 7 संदिग्धे W2. 11 निश्चितबुद्धिनामानि B1. 10 निर्णयति A. (पा.) चित्ताभोगो मनस्कारः । चित्ताभोगश्चित्तयत्नः । 'आभोगो यत्नपूर्णता' इति वैजयन्ती (पृ. २३९, लो. ७) । स मनस्कार: स्यात् । तं मनस्कारं मनसि कारमि- त्युभयथा कथयन्ति ॥ चर्चा – विचारणा | मीमांसानामानि ॥ ' मीमांसा स्याद् विचारणा' इति हलायुधः (अ. मा. १. १०) ।। अध्याहारः – ऊहः । तर्कनामानि ॥ विचिकित्सा - द्वापरौ च । संशयनामानि । 'वितर्को विशयः शङ्का' । एतानि च ॥ अथ – निश्चयौ । निश्चयनामनी ॥ 'निर्धारणा परिच्छित्तिः' । एते च ।। २-३ ।। J वदन्ति Bs. 2 तर्कस्य A4. मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिमिथ्यामतिर्भ्रमः ॥ ४ ॥ (वि.) मिथ्येति — मिथ्या चासौ दृष्टिश्च मिथ्यादृष्टिः । नास्ति परलोक इति मतिर्यस्य सः नास्तिकः । तस्य भावो नास्तिकता । परलोकाभावबुद्धिनामनी ॥ व्यापाद्यते- ऽनेनेति ‘व्यापादः। ‘पद् गतौ ' । द्रोहस्य चिन्तनं द्रोहचिन्तनम् । जिघांसाचिन्तानामनी ॥ सिद्धः अन्तो निश्चयोऽत्र सिद्धान्तः । राद्ध: अन्तो यस्य राद्धान्त । निर्णयविशेष- नामनी ॥ भ्राम्यतेऽनयेति भ्रान्तिः । भ्रमश्च । ‘भ्रमु चलने' । 'भ्रमु अनवस्थाने 'इत वा धातुः । मिथ्या चासौ मतिश्च मिथ्यामतिः । अतस्मिन् तद्बुद्धिनामानि ॥ ४ ॥