पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः इल्वलाः – याः । (पा.) मृगशीर्ष - आग्रहायणी । मृगशिरोनक्षत्रनामानि ॥ तदिति तच्छब्देन प्रत्यासन्नमृगशिर एव परामृश्यते । तच्छिरोभागे याः स्वल्पतारकाः सन्ति ता इल्वला इत्युच्यन्ते । इन्वका इति पाठोऽप्यस्ति । 'इन्वकास्तच्छिरोदेशे तारका इल्वला 'अपि' इति वैजयन्ती ( पृ. २०, श्लो. ३९) । अनुक्तम्' । 'ज्येष्ठा ज्येष्ठन्नी' । ज्येष्ठानक्षत्रनामनी ॥ ' अथो निष्ठ्या स्वाति: ' । स्वातीनक्षत्रनामनी ॥ 'आर्द्रा नक्षत्र- शाखिनी' । आर्द्रानाम ॥ २३ ॥ ६६ 1 2 मता: B3, B4; मुद्रितग्रन्थे च. अनुक्त: पाठ: A1. बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥ (वि.) बृहस्पतिरिति—बृहतां वेदमन्त्राणां पतिः बृहस्पतिः±। सुराणामाचार्यः सुराचार्य: । गिरां पतिः गीष्पतिः । गीर्पतिर्वा । धिषण | बुद्धिरस्यास्तीति धिषणः । गृणाति पुरुषार्थान् गुरुः । 'गृ शब्दे' । जीव्यते मृतोऽनेनेति जीव: । 'जीव प्राणधारणे'। अङ्गिरसोऽपत्यं पुमानाङ्गिरसः । वाचां पतिः वाचस्पतिः । चित्रशि- खण्डिनोऽङ्गिरसो 'जातः चित्रशिखण्डिजः । बृहस्पतिनामानि ॥ २४ ॥ 1 देवमन्त्रिणां W2. 2 ' बृहि वृद्धौ' C. 3 गृह्णाति B1, C, W2; 'ग्रह उपादाने ' C, W2, Y. 4 तत्त्वार्थान् Y. 5 अथवा ग्राहयति शब्दयति गुरुः, गुरुत्वात् सर्वाधिक्यात् गुरु: B2, C. 6 जायत इति I, K3, U. (पा.) बृहस्पतिः–गीष्पतिः । ‘अहरादीनां पत्यादिषु 'वा रेफ: ' (वा. ८. २. ७०) इति पाक्षिकरेफादेशात् गीर्पतिरपि । धिषणो–चित्र शिखण्डिजः । बृहस्पतेर्नामानि ॥२४॥ 1 उपसंख्यानं कर्तव्यम् B3. 2A1 omits अपि. शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः । अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ।। २५ ।। (वि.) शुक्र इति — शुक्लवर्णत्वात् शुक्रः । शुक्रात् रुद्रद्वारा आगत इति वा । रुद्रस्य स्वशुक्लद्वारेण निर्यातत्वाद्वा । शुचं दुःखं देवेभ्यो रातीति वा शुक्रः । 'रा दाने’। दैत्यानां गुरुः दैत्यगुरुः । कवेरपत्यं पुमान् काव्यः । दैत्येभ्यः 'पुष्टिं वष्टि कामयते उशना। ‘वश कान्तौ’’। अयं शब्दः 'सान्तः । भृगोरपत्यं भार्गवः । कवयति चातुर्येण