पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ६३ )
टीकाद्वयसहितम्

कुल्याम्मोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्करायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥ १५ ॥

सूतः-- सर्वमुपपन्नम् ।
राजा--( स्तोकमन्तरं गत्वा ) तपोवननिवासिनामुपरोधो मा

भूत् तदिहैव रथं स्थापय यावदवतरामि ।

सूतः--- धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजा---( अवतीर्य ) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि

नाम । इदं तावद्गृह्यताम् । ( इति सूतस्याभरणानि धनुश्चोपनीयापर्याति ) सूत, यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।


अत्र बहुव्रीहिणैवार्थलाभे यदङ्कितपदं तेन प्रत्यग्रवत्तया सार्द्रत्वेनाश्रयस्य सुन्दरतया राज्ञः प्रीत्यतिशयो ध्वनितः । क्वचिदिति वाक्यचतुष्टये संबध्यते ! चकारः पूर्ववाक्यत्रयसमुच्चये । स्वभावोक्तिः क्रियासमुच्चयालंकारः काव्यलिङ्गं च । वृत्यनुप्रासः श्रुत्यनुप्रासोऽपि तीवेति दन्त्ययोः श्रु इति तालव्ययोः, करोति कण्ठ्ययोः टरेति ष्टेति मूर्धन्ययोः, स्तेति दन्त्ययोः, रूणेति मूर्धन्ययोः संगतेः । एवमुत्तरचरणेष्वप्यह्यम् । शार्दूलविक्रीडितम् [ छन्दः] स्तोकमल्पमन्तरं गत्वा । अवतीर्योपनीय प्रविश्येत्यादीनां कविवाक्यत्वाल्लयवन्तानाम् ‘राजा वदति’ इद्याद्यभ्यूहितकविवाक्यस्थक्रियया संबन्धः । एवमग्रेऽपि बोद्धव्यम् । विनीतेत्यादिना


तासां स्नानानंतरं तर्पणादिक्रियाभावात् । यद्वा वानप्रस्थानं वस्त्रनिष्पीडनं न युक्तमिति स्मृतिः । अनेन पूर्वे शकुन्तलामतिथिसत्काराय संदिश्य काश्ययो गत इति वैखानसोक्तस्य संमतिरुक्ता ॥ सर्वमित्यादि । उपपन्नं ज्ञातम् । उक्तार्थे सर्वमित्यर्थः । स्तोकमंतरम् ईषदवकाशं किंचित्प्रविश्येत्यर्थः । उपरोधो वाया माभूत् न भवतु ८ माडिलुङ् ” इति लुङ् । यावदवतरामि अवतरिष्यामि । यावत्पुरानिपातयोर्लट् ” इति भविष्यति लट्प्रत्ययः । विनीत इत्यादि । विनीतानामुपशमवतां चेप इव वेषो


१ अपि च इत्यधिकम् । २ सूत इत्यधिकम् ।