पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ६२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।

वाभावः । एवमात्यवाक्येऽपि । कीदृशाः । शुका गर्भे मध्ये येषां तानेि च कोटराणि तरुविवराणि तेषां मुखानि तेभ्यो भ्रष्टाः । सुखशबदेन नीवाराणां बाहुल्यम् । संपूर्णविशेषणेन सुपुष्टपक्षित्वेनाश्रममनोज्ञतया राज्ञो रातेर्ध्वन्यते । इदं पूर्वत्रार्यो हेतुः । इंगुदी तापसतरुस्तत्फलानेि भिन्दन्तीति भिदः । उपलाः पाषाणाः । सूच्यन्ते द्योत्यन्त एवेति सूत शङ्कापनोदः । सूच्यन्त इति कर्मकर्तरि । कीदृशाः प्रकर्षेण स्निग्धाः । अत्र प्रशब्दः प्रकर्षे द्योतयन्निंगुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं द्योतयन्राज्ञस्तत्राभिरतिं ध्वनयाति । विश्वासस्योपगमः प्राप्तिस्तस्मात् । उत्पन्नविश्वासा इत्यर्थः । अत एवाभिन्नगतयोऽपरित्यक्त स्वस्थितयो मृगाः शब्दं रथशब्दं सहन्ते । ‘ना गतिर्मार्गे दशायां च' इति विश्वः । अनया स्वस्वचेष्टाविष्टमृगस्थित्याश्रममञ्जुलतया नाय- कस्य प्रीत्युत्कर्षो व्यज्यते । तोयाधारा देवखातादयस्तत्पथास्तन्मार्गाः । ‘ऋक्पूरब्धूः ’ इत्यस्याप्रत्ययः समासान्तः । वल्कलान्यर्यादार्द्राणि तेषां शिखा अग्राणि तेभ्यो निष्यन्दो जलस्रवणं तेन या रेखास्ताभिरङ्किता श्चिह्निताः । निष्यन्देति “अनुविपर्याभिनिभ्यः-२ इतेि विकल्पेन पत्वम् ।


भ्रष्टाः पतिताः अनेन शुकानां किरातादिग्रहणजनितभयनैरपेक्षेण निश्शंकाचरश्रानं व्यज्यते । तेनेतरवनवैलक्षण्यमुक्तम् । आश्रमव्यतिरिक्तवनान्तरे तरुणामवस्ताद्यदि नीवारपतनं दृश्यते तच्चिह्नेन सुखावस्थानसंभावनया किरातादयः शुकान् गृह्णन्ति अत्र न तथेति व्यतिरेकः । तेन चश्रामे दुष्टजनैः प्रवेष्टुमशक्यमिति ऋषीणां प्रभावः सूचितः । इंगुदीफलभिदः इंगुदीनां तापसतरुणां फलानि येषु भिद्यन्ते निष्पिष्यन्त इति तथोक्ताः । प्रस्निग्धाः प्रकर्षेण स्नेहयंत उपला अश्मानः । ‘‘ उपलः प्रस्तरे मणौ ’ इति विश्वः । सूच्यन्ते ज्ञाप्यन्ते तपोवनव्यतिरिक्तारण्यस्थपाषाणानाभिंगुदीफलादिजिष्पेपणाभावात्स्निग्धत्वं नास्ति । किं तु तपोवनोपलानमेव स्निग्धता तस्मादुपलस्निग्धतया इदमरण्यं तपोवनमिति सूच्यत इति भावः । प्रस्निग्धा इति प्रोपसर्गेणोपलानामतिस्निग्धतयैदानीमेयेगुदीफलानि निष्पीड्य स्नानार्थमृपयो गता इति ध्वन्यते । इंगुदीफलानां चिरात्भेदने सत्युपलानां स्निग्धता स्फुटं दृश्यतेति । सद्योफलभेदनद्योतनार्थे प्रोपसर्ग इति भावः । तेन च निर्यतानामृषीणामागमने बहुकालवकाशः सूच्यते । विश्वासोपगमाद्विश्वासप्राप्तेः अभिन्नगतयः यथापूर्वगमनाः शब्दं ध्वनिं रथस्येति शेषः। तोयाधारपथा इति। तोयाधारा जलाशयाः तेषां पंथानो मार्गाः वल्कलानां परिधानयोग्यतरुत्वचां शिखा अंचलाः तासां निष्यंदा जलस्रावाः तेषां रेखाः श्रेणयः ताभिरद्भिसा लांछिताः । अनेनाश्रमे काश्चन तापसस्त्रियो विद्यंत इति ध्वन्यते । स्त्रिय एव तटाकेषु स्नात्वा सार्द्रवल्कलाः स्वस्योटजेषु प्रविशंति


१ इंगुदीफलभिद इति विधेयविशेषणं तद्भेदकत्वेन सूच्यन्त इत्यर्थः साधुः ।