पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ३१ )
टीकाद्वयसहितम्।


तिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥' इति । अत्रैरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि वाच्यायमानमेव एवं प्रकृतेऽपि योज्यम् । तत्समर्थकमाह - बलवदिति । बलवदधिकमपि । 'बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे ।' इत्यमरः । शिक्षितानां पुरुषाणाम् । विशेषणादेव विशॆष्यप्रतिपत्तेर्विशेष्यनुपादानम् । तथा च वामनः - "विशेषणमात्रप्रयोगे विशेष्यप्रतिपत्तौ' इति । चेत आत्मनि स्वविषयेऽप्रत्ययमविश्वासि । 'प्रत्ययोऽधीनशपयज्ञानविश्वासहेतुषु ।' इत्यमरः । 'क्व नासि शुभप्रदः' इतिवद्धिशब्दानुपादानेऽप्ययमर्थान्तरन्यासः । सामान्यस्य समर्थकत्वात् । श्रुत्यनुप्रासश्च | विश्वसस्य चेतो


शंकासंभवनास्वपि” इत्यमरः । अनेन स्वस्य शिक्षाबाहुल्यात्स्वप्रणतिर्प्रबन्धस्य निरवशता कविना सूच्यते । अन्ये त्वेवमपि योजयन्ति विदुषां सहृदयानामापरितोषादीषत्परितोषमुद्दिश्य इतरप्रबन्धसाधारणबहुमतिं न्यूनबहुमतिं वा उद्दिश्येत्यर्थः । प्रयोगविज्ञानं साधु न मन्ये किं त्वन्यथा प्रबन्धस्य लोकोत्तरचमत्कारकारित्वादितरप्रबन्धविलक्षणविद्वज्जनविशेषपरितोषमुद्देश्यैवायं ग्रन्थनिर्माणप्रयास इत्यर्थः। सन्निबन्धकरणस्य सहृदयप्रीतेरेव पुरुषार्थत्वाद्विद्वज्जनबहुपरितोषमुद्दिश्य साध्वेव मन्य इत्यर्थः । तदेवाह् - बलवदित्यादिना शिक्षितानां गुरुकुलक्लिष्टानां बलवच्चेतः नानाप्रकारेण विस्रब्धं मनः आत्मनि अप्रत्यय प्रीत्याक्षेपपरिप्रश्ने अप्रत्ययं न भवति किं तु बहुधाभ्याससंप्रदायादि शुद्धिमत्तया निःशेषकमेवेति यावत् । वामनाद्युक्तशिक्षाप्रकारः कवेः कथ्यते । "काव्यं कर्तुं विवेक्तुं च ये जानन्ति त एव हि । काव्यज्ञास्तैस्तदभ्यस्येदुपदिष्टेन वर्त्मना ॥" इति । तेषामुपदेशक्रमस्य वामनादिभिरुक्तः "आधानोद्धरणॆ तावद्यावद्दोलायते मनः । पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥ यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुता, । तं शब्दपाकनिष्णाताः शब्दपाकं प्रचक्षते । वाच्यानां वाचकानां च यदौचित्येन योजनम् ॥ रसादिविषयेणैतत्कर्म मुख्यं महाकवेः । इत्युक्तनयेन प्रतिपादितं काव्यज्ञैरभ्यासं निगमयति । "उपदिष्टेन काव्यज्ञैरेवंरूपेण वर्त्मना । मुहुर्मुहुः समभ्यस्यैतैः समं काव्यनिर्मितम् ॥" वामनाद्युक्तप्रकारेण विविक्तदेशापररात्ररूपकालादियुक्तिमता च काव्यज्ञैरुपदिष्टेन मार्गेण तैः सममेव काव्यनिर्माणकर्म मुहुर्मुहुरभ्यस्येच्छब्धपाकार्थे पदानामाधानोद्धरणस्थिरीकरणादिसिद्ध्यर्थे रसादिविषयेणेति । आदिशब्देन शृंगारादिरसनिर्वेदादिभावमाधुर्यादिगुणग्राम्यत्स्पर्शराहित्यरूपौचित्यमसृणोद्धत्यादिघटनानुप्रासोपमाद्यलंकारभावोदयभावसंधिभावशान्तिभावशबलतादिविषयेणौचित्येन वाग्वाचकयोर्योजनार्थे मुहुर्मुहुरभ्यास इत्यर्थः । काव्यकर्मणि कारणभूतशक्तिव्युत्पत्तिमान्कविरेव काव्यज्ञशिक्षाभ्यासात्काव्यकर्मणि परां प्रौढिमाढौकत इति प्राक्तनैः प्रतिपादितम् । अत एव शिक्षितानामित्युक्तम् ॥ अत्र कविना बलवच्छिक्षिताना-