पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


तस्यां च सामान्यस्य समर्थकत्वं न घटते । न च ‘मोक्षे धीर्ज्ञानमन्यत्र विज्ञानम्’ इत्युक्तेर्विज्ञानशब्द एव तत्र शक्त इति वाच्यम् । प्रयोगपदवैयर्थ्यापातात् अनेन विद्वत्परीक्षणीयं मम प्रयोगविज्ञानमिति व्यज्यते । पर्यायोक्तालंकारः । तल्लक्षणमुक्तं भामहेन - 'पर्यायोक्तं प्रकारेण यदन्येनाभिधीयते । वाच्यवाचकशक्तिभ्यां शून्येनावगमात्मना ॥' इतेि । उदाहृतं च हयग्रीववधस्थं पद्यम् - 'यं प्रेक्ष्य चिररूढापि नेिवासप्री -


क्येन भाव्यम् । अत एवोक्तं परिच्छिद्य विदुषामिति । आपरितोषात् पारतोषावधि । प्रयोगविज्ञानं प्रयोगविशेषजन्यसुज्ञानम् । साधु रम्यं ज्ञानं प्रमेत्यर्थः । ‘साधु त्रिषु हिते रम्ये सज्जने वार्धुपौ पुमान्' वैजयन्ती । न् मन्ये न बुध्य इति उत्प्रेक्षा । उक्तं च दण्डिना - "शंके मन्ये ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते इवशब्दोऽपि तादृशः ॥" इति । विद्वत्संगम्यवधि साधोरपि प्रयोगस्य साधुत्वं न निश्चीयत इत्यर्थः । तथैवाह् - बलवदित्यादिना । बलवच्छिक्षितानामपीति शिक्षाया बलवत्वं नाम तस्याः वेदशास्त्रविषयसंप्रदायो बहुधाभ्यासः । शास्त्रार्थतत्त्वविदां तादृशानामपीत्यर्थः । चेतः मनः आत्मनो स्वरूपे अप्रत्ययम्स्वाधीनम् अविश्वासग्रस्तमित्यर्थः । स्वविद्यावैशद्ये युवजनसंमतिं विना विश्वासो न विधेय इत्यभिप्रायः । अत्र विदुषामिति निरुपपदेन सकलशास्त्रवत्तया सभ्यस्तवः कृतः । प्रयोगविज्ञानशब्देन प्रयोगविशेषज्ञानवाचिना वस्तुस्तव उक्तः । केचिदेवमपि योजयन्ति उपसर्गादियोजनाभेदेने प्रकृतोपयोगितया यद्वाच्यार्थस्य वैचित्र्यं तदपि व्यंग्येन सह समशीलतामारोहति । तथा हि - विदुषां युवानामापरितोषात् । "आङ्गेशदर्थेऽभिव्याप्तौ" इत्युक्तत्वादापरितोषः स्फुटपारितोषः तस्मात्तमुद्दिश्येत्यर्थः । प्रयोगविज्ञानं प्रयोगविशेषज्ञानं साधु सुष्टु न मन्य इति काकुप्रश्ने किन्तु साधु तर्कयामीत्यर्थः । प्रबन्धस्य निरवद्यतया प्रयोगविशेषज्ञानस्य प्रबंधस्य निरवद्यतया प्रथमविशेषज्ञानस्थ प्रमात्वाद्बुधजनपरितोषसंसदननिमित्तं न तर्कयामीत्यर्थः । कुकत्रिप्रबन्धप्रयोगस्यैव विदुषां परीक्षापरितोषाभ्यां भाव्यमित्यभिप्रायः । "कालौल्यः" इति धातोः काकुशब्दः प्रसिद्धः । प्रकृतादर्थादर्थान्तरे शब्दस्य चलत्स्वभावत्वात् । अत एव न मन्य इत्यत्र काक्वा तर्कयामीत्यर्थान्तरम् । केचिदेवं वदन्ति । ईषदर्थे कुशब्दः तस्य कादेशः कुर्भूमिः हृदयस्थवस्तुप्रतीतेरौपद्भूमिः काकुरिति यावत् । प्रयोगविशेषज्ञानस्य साधुत्वे हेतुमाह - बलवच्छिक्षितानामिति । बलवद्दूदृढंं वामनाद्युक्तप्रकारेण शिक्षितानां कवीनां नटादीनामिवेति शेषः । तदुक्तम् - प्राधान्यं द्विविधं शब्दमार्थं च । तत्र विशेषणस्य शाब्दे गुणभावेऽप्यर्थः प्रधानम् । तथा विशेष्यस्य शाब्दे प्राधान्येऽप्यर्थे गुणी भावः । उत्कर्षापकर्षतया विधीयमानात्वादनूद्यमानात्वाच्च । ये बलवच्छिक्षितास्तेषामित्यर्थः । चेतः मनः आत्मन्यप्रत्ययम् अपीति प्रश्ने अप्रत्ययं न भवति किन्तु बलवच्छिक्षाविरहितानामेव चेतः दोलायमानमविश्वासग्रस्तमित्यर्थः। "गर्हा सर्षुश्चयप्रश्न-