पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२२ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


तापसी--( उभौ निर्वर्ण्य ) अच्छरिथं अच्छरिअं । [ आश्व-

र्यमाश्चर्यम्]

राजा-आर्ये, किमिव ।
तापसी-इमस्स वलअस्स दे वि संवादिणी आकिदि त्ति

विह्माविद ह्मि। अपरिइदस्स वि द अप्पाडिलोमो संवुत्तों त्ति । [ अस्य बालस्य तेऽपि संवादिन्याकृतिरिति विस्मापितास्मि | अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति ]

राजा--( बालकमुपलालयन् ) न चेन्मुनिकुमारोऽयम्, अथ

कोऽस्य व्यपदेश: ।

तापसी-पुरुवंसो । [ पुरुवंशः ]
राजा–( आत्मगतम् ) कथमेकान्वयो मम । अतः खलु मदनु

कारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरखाण्यमन्यं कुलव्रतम् ।


द्वित्रेष्ववयवेषु स्पृष्टस्य न तु सर्वाङ्गस्पृष्टस्य ममेवं वक्तुमशक्यमनुभवैकगम्यं विगलितवेद्यान्तरं सुखं यदि तदा कृतिनः । अयमेव कृतीत्यर्थः । यस्या- ङ्कादुत्सङ्गादयं प्ररूढो वृद्धिं प्राप्तस्तस्थ चेतसि कां निर्वृर्ति किं सुखं कुर्या- दितेि न ज्ञायत इति भावः । तस्य सुखानुभवेन प्राकरणेकेनार्थेन तत्पि त्रादेः सुखातिशयस्यार्थादापतनादर्थापत्तिरलंकारः । रूपकम् । तसितस्ये ति कात्कृतीति छेकवृत्तिश्रुत्यनुप्रासाः । इन्द्रवज्रोपेंद्रवज्रयोः प्रथमोप जातिः । उभौ वाल्दुष्यन्तौ । निर्वर्ण्य दृष्ट्वा । आश्चर्यमाश्चर्यम् । इमस्स अस्य यार्स्य तव च संबन्धेन संत्रादीनी सदृश्याकृतिरिति विस्मापितास्मि अपरिचितस्यापि तेऽप्रतिलोमोऽनुकूलः संवृत्त इतेि विस्मापितास्मीत्यनु- षज्यते । कोऽस्य व्यपदेशः किं कुलम् । पुरुवंशः ! अन्यं वानप्रस्था


नेत्यादि एवमनुभधैकवेद्यम् । अन्यत्स्पष्टम् । आर्ये इत्यादि व्यपदेशः कुलप्रसिद्धिः ।


१ तुह संबंध- ( तव संबंध- ) इति क० पु० पाठः । २ विह्मिदह्मि (विस्मितास्मि) इति क्क० पु० पाठः। ३ अज्जस्स ( आर्येश्य ) इति व० पु० पाठः । ४ पुरुवंसओ एसो (पुरुवंशज एषः ) इति क्क० पु० पाठः ।