पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४११ )
टीकाद्वयसहितम्।


मातलिः - आयुष्मन्, एष खलु हेमकूटो नाम किंपुरुषपर्वत-

स्तपःसंसिद्धिक्षेत्रम् । पश्य ।

स्वायंभुवान्मरीचेयः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ ९ ॥ ॥
राजा--तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य

भगवन्तं गन्तुमिच्छामि |

मातलिः-प्रथमः कल्पः ३

( नाट्येनावतीर्णौ )

राजा– (सविस्मयम् ) मातले,

उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयानिरुद्धतस्तवावतीर्णाऽपि रथो न लक्ष्यते१०


सायंकालीनो मेघोऽर्गल इव सानुमान्पर्वतः । अर्गलेनौपम्यं दैव्यज्ञाप- नार्थम् । तच्च विष्णुपुराणे – ’हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । नीलश्वेतश्च भृङ्गी च उत्तरे वर्षपर्वताः । लक्ष्यमाण द्वौ मध्यौ ’ इति । जम्बुद्वीपस्यापि लक्षयोजनत्वात्पूर्वापरसमुद्रावगाढत्वं संभवत्येव । किंपु- रुषेति । तदुक्तं विष्णुपुराणे - भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् । हरिवर्णं तथैवान्यन्मेरोर्दक्षिणतो द्विज ।। " इति । तपःसंसिद्धिक्षेत्रमि- त्यनेन मारीचस्य सूचनम् । स्वायंभुवादिति । स्वायंभुवाद्ब्रह्मसंवन्धिनो मरीचेर्यः प्रजापतिः कश्यपो बभूव । सुरासुरगुरुरित्यनेनावश्यं नमस्कर- णीयत्वं सूचयति । सपत्नीक इत्यनेन तवापि पत्नीयोगोऽत्र भावीति ध्वनितम् । छेकवृत्त्यनुप्रासौ । प्रथमः कल्प उत्तमः पक्षः । नाट्येनाव- तीर्णाविति रथावतरणमेवैतयौरारोपितं कविना । कविवाक्यं चेदम् । रथावतरणे यानि चिह्नानि तेषामजातत्वात्तदेवाह - उपोढेति । अभू-


स्वायंभुवादित्यादि । स्वयंभुवोऽपत्यं पुमान्स्वायंभुवः तस्माद्ब्रह्मसूनोः । सुरासुरगुरुः सद्वृत्तानां सुराणामसद्वृत्तानामसुराणां गुरुः । श्रेयांसि शुभानि काश्यपदर्शननमस्कारादीनि । प्रथमः


१ परं तपस्विनां सिद्धिक्षेत्रं इति क्व० पु० पाठः । २ अस्मिन् इति क्व० पु० पाठः ।। ३ एताववतीर्णौ स्वः इत्यधिकं क्व० पु० । ४ सस्मितम् इति क्व ० पु० पाठः।।