पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२० )
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


मातालः-साधु दृष्टम् । ( सबहुमानमवलोक्य ) अहो, उदोररमणीया

पृथिवी ।

राजा-मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी
सांध्य इव मेघपरिघः सानुमानालोक्यते ।

मल्पत्वं ध्वनितम् । यत्र धर्मं लक्ष्यते तत्र तद्गता धर्मो व्यङ्ग्याः । यथा तीरे लक्षिते तद्गतपावनत्वादयः । यत्र धर्मो लक्ष्यते तत्र धर्मान्तराभावात्तदूतो विशेष एव व्यङ्ग्यः । यथा विकासेन प्रसृतत्वे लक्षिते तद्गतातिशयित्वादिति आकर एव स्थितम् । शैलानां पर्वतानां शिखराग्रभागात् । जात्येकवचनम् । मेदिन्यवरोहतवाधो यातीवेत्युत्प्रेक्षा । पादपा वृक्षाः । स्कन्धानां प्रकाण्डानामुदयात्प्रट्यात् । अत्र प्रकाण्डः स्कन्धः स्यात् ' इत्यमरः । अत्रोदथशब्दः प्राकटयं लक्षयंस्तदतिशयं ध्वनति । पर्णानां स्वतिशयेन यन्तरं मध्यं तत्र विलीनतां तदाकारतां जहति । प्रकटीभवन्तीत्यर्थः । तनोर्भावस्तनुत्वं तेन नष्टमदृश्यं सलिलं यासां ता आपगा नद्यः संतानैर्विस्तरैः। अर्थादृष्टैरित्यर्थः । ‘संतान विस्तृतौ देववृक्षे चापत्यगोत्रयोः' इति धरणिः ! व्याक्तिं प्रकटतां यान्ति । पश्येति वाक्यार्थस्य कर्मत्वम् । उरिक्षपतोध्वक्रुर्वतेत्युत्प्रेक्षा । केनापिं भुवनं मत्पार्श्वे मन्निकटमानीयत इवेति गम्योत्प्रेक्षा ।" पार्श्व कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च' इति विश्वः । स्वभावोक्तिकाव्यलिङ्गोप्रेक्षयोः संसृष्टः । तानैस्तन्विति छेकवृत्तिश्रुत्यनुप्रासाः । शार्दूलविक्रीडितं वृत्तम् । अत्र ‘ कार्श्यनाकलिताम्भसः पृथुतया व्यक्तिम् ' इति पठिवास्थानस्थपदलक्षणो दोषः परिहरणीयः । एतेन संतानशब्देऽप्रयुक्तस्वं निहतार्थस्यं वा नष्टशब्दो नामप्रकटलक्षणार्थानभिधानात्तत्रावाचकत्वं (?) च परिंहृतं भवति । हेतुनामार्थवशाब्दत्वे भिन्नवाक्यत्वेन परिहरणीये । महावाक्यत्वेनैकवाक्यत्वेऽपि ‘उन्मज्जनात्’ इति पठित्वा परिहर्तव्ये । ‘स्कन्धोदयाः इति पाठे तु ‘पृथुतराः’ इति पठित्वा परिहरणीये । पश्येत्यस्योत्तरं साधु दृष्टमिति । सबहुमानमवलोक्येते तत्क्रियानुवाकं काविवाक्यम् । अहो आश्चर्यं । उदारा महती रमणीया च । तत्स्थानस्थित्यैकदैव सर्वस्या दृग्गोचरत्वादेवमुक्तिः। पूर्वापरसमुद्रयोखगाढः संवद्धः । सांध्यः


१ उदप्ररमणीया इति क० पु• पाठः । २ आलक्ष्यते इति क्० पु० पाठः ।