पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( २३ )
टीकाद्वयसहितम्।


सभ्यप्रशंसा तत्र सभ्यस्वरूपमादिभरते- “सभ्यास्तु विबुधैर्ज्ञेया ये दिदृक्षान्विता जनाः । मध्यस्था सावधानश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकन्धराः। अगर्वा रसभावज्ञास्तौर्यत्रितयकोविदाः ।। असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः | अमन्दरसनिष्यन्दहृदया भूषणोज्ज्वलाः ॥ सुवेषा भोगिनो नानाभाषावीरविशारदाः स्वस्वो चितस्थानसुस्थास्तप्रशंसापरायणाः |' इतेि । अद्येत्यनन्तरमेव वक्ष्य-


शक्तिमुक्त्वा व्युत्पत्तिं प्रस्तौति । "व्युत्पत्तिरपि शक्त्यैव संगता ह्यनुवर्तते । सा हि तस्याः प्रियसखी नित्यमव्यभिचारिणी " इति सा व्युत्पत्तिः प्राक्तनेऽपि जन्मानि तदनुवर्तनशीलतया सततमव्यभिचारिणी शक्तेः प्रियसख्येव । व्युत्पत्तिविरहिताशक्तिरप्युदासीनैव तूष्णीमास्त इत्याह - परिबर्हवतीं कर्तुं प्रतिभां प्रतिभानवान् । साधीयसी तु व्युत्पत्तिं सविधे सन्निधापयेत् ॥” इति । व्युत्पत्तिः कीदृशी इत्यत आह -"युत्पत्तिर्लोकचारित्रशास्त्रकाव्याद्यवेक्षणम् । अभ्यास उपदेशेन काव्यज्ञानां च संमता" इति लोकाचारच्छन्दशब्दचतुर्वर्गकलात्वज्ञगजतुरगादिलक्षणाभिधानकोशपुराणेतिहासमहाकविकाव्याद्यवेक्षणं काव्यज्ञोपदिष्टमार्गेण काव्यज्ञैः सहाभ्यासश्चेति । एतस्सर्वे व्युत्पत्तिः सर्वेषां संमता । एतेषामभ्याससहेतोः काव्यकरणे फलवतां क्रमेण प्रतिपादयति -“ चरस्थिरानेकविधलोकवृत्तानुवर्तिनः । काव्यस्य कारणं लोकज्ञानमुच्छ्वसितं कवेः ।” इतरसामग्रिमतो‍ऽपि लोकवृत्तानभिज्ञस्य काव्यकरणकौशलं न भवतीति प्रतिपादयति -"अज्ञातलोकवृत्तो यः शास्त्रकाव्यविदप्यसौ । ऋष्यशृंग इवाशेषैर्घुष्यते मुग्धसंसदि ॥" इति। "वृत्तसंशयविच्छित्यै छन्दःशास्त्रनिरूपणम् । शब्दशुद्धिविवेकाय शब्दशास्त्रवेचनम् । चतुर्वर्गैः: कलाभिश्च काव्यं निर्मीयते यतः । अतस्तच्छास्त्रविदुषा भाव्यं काव्यं चिकीर्षता ॥" चतुर्वर्गैः: कलाभिश्च काव्यस्य निष्पत्तेस्तश्चिकीर्षता कविना मानवादिधर्मशास्त्रकौटिलियकाव्यार्थशास्त्रवात्स्यायनादिकामशास्त्रसंख्यायोगादिमोक्षशास्त्रभारतीयादिकलाशास्त्रवेदिना भवितव्यमित्यर्थः । "नृपाणां काव्यनेतॄणां खङ्गाश्वगजशिक्षणम् । वर्णनीयं काव्यकृता तस्माच्छास्त्रवेदनम् ॥ इतिहासपुराणानामभ्यासेनापि भूयते । राजवंशकथातीर्थलोकभेदावबुद्धये ॥लोकशास्त्रविशेषज्ञः काव्यनिर्माणकौतुकी । काव्यानि कालिदासादेः सततं परिशीलयेत् । लोकशास्त्रपुराणादिज्ञानवानपि सीदति । अज्ञातकाव्यसरणिः काव्यनिर्माणकर्मणि ॥ अन्या हि गतिरश्वस्य गतिरन्या खरोष्ट्रयोः । मदक्लिन्नकपोलस्य गतिरन्या हि दंतिनः ॥ वेदशास्त्रपुराणानां रीतयो हि पृथक् पृथक् । रीतिरन्यैव काव्यानां लोकोत्तरपदस्पृशाम् ॥ रसभावगुणौचित्यघटनालंक्रियादयः । काव्यादन्यत्र दृश्यंते कुत्र वा वेदशास्त्रयोः एवं लोकस्य शास्त्राणां काव्यानामपि वेदिता । प्रतिभावान्प्रवर्तेत काव्यज्ञैः कार्यकर्मणि । किमेवं बहुनोक्तेन लोके यद्यद्विभाव्यते । तत्तत्सर्वं वेदितव्यं कांक्षता । काव्यानिर्मितम् ॥ न स शब्दो न तद्वाच्यं न च विद्या न सा कला । जायते यत्र काव्यागमतो सारो