पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


माणग्रीष्मसमयोपलक्षणम् । कालिदासेति कविप्रशंसा । जगद्विलक्षणस्यातिप्रतीतस्य नामान्तरेण सरस्वतीवपुषस्तस्य नामसंकीर्तनमेव स्तुतिः । अभिज्ञानशाकन्तलेति स्वरूपत एवेति वृत्तं रमणीयमित्यर्थः। तद्वर्थितवस्तुनेति नवेनेति च रूपकप्रशंसा । उक्तं च भावप्राशिंकायाम् - 'इत्थं रङ्गविधानस्य संबन्धादिप्रसिद्धये । गोत्रं नाम च नन्वीयात्पूजावाक्यं सभासदाम् । वाञ्छाकलापः प्रथमं कलाविधिरनन्तरः। वाञ्छाशून्या न


महाकवेः ॥" इति अत एव लोकोत्तरवर्णननिपुणकविकर्म काव्यम् प्रयोगार्हं भवति । तद्विवेचकसामाजिकानामपि यद्यपि शक्तिः प्रायिकी तथापि सर्वथा पूर्वकथितव्युत्पत्तिसामग्र्या भवितव्यमिति प्रकृतेऽभिरूपभूयिष्ठापरिषदित्युक्तम् । अभिरूपभूयिष्ठेत्यादिना सभ्यस्तदस्योक्तत्वात्प्ररोचना नाम भारतीकृत्यंगमुक्तं भवति । "प्ररोचना तु सा प्रोक्ता प्रवृत्तार्थप्रशंसया । मदस्थ चितवृत्तीनामुन्मुखीकरणं च यत् ॥ प्रशंसा द्विविधा प्रोक्ता चेतनाचेतनाश्रया । अचेतनौ देशकालै कालो मधुशरन्मुखः । देशस्तु देवताराजतीर्थस्नानादिरुच्यते । चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः ॥" सा प्ररोचना विस्ताररूपा संक्षेपरूपा चेति द्विविधा । कथानायककविसभ्यनटानामेकस्मिंश्लोके वर्णनं यत्र सा संक्षेपप्ररोचना । यत्र पृथक् पृथक् वाक्ये श्लोके वा कविनायकसभ्यादीनां वर्णनं क्रियते सा विस्तरप्ररोचना । भारतीलक्षणं भरतेनोक्तं - "इयं नाट्यक्रियाहेतोर्भारती निर्मिता बुधैः । नाट्यादौ भारतीवृत्तिं वृत्तिभेदेन योजयेत् ॥ प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते । प्रस्तावनोपयोगित्वात्सांगं तत्रैव युज्यते ॥शोकविस्मयसंत्रासहासानन्दान्तवैरपि । रत्युत्साहजुगुप्साद्यैर्विशेष्यैरुपलक्षिता ॥ वाङ्मयी संस्कृतप्राया भारतावृत्तिरिष्यते । अस्याश्च चत्वार्यंगानि कथितानि मनीषिभिः । प्ररोचनविधिश्चैव तथा प्रहसनामुखम्” ॥ इति । अभिरूपभूयिष्टेत्यनेन सकलरूपकपरिज्ञानवत्त्वे सामाजिकानामदृष्टपूर्वं रूपकान्तरं परितोषयितृकं यद्यपि नास्ति तथापि प्रयोगसमर्थाभावादेतादृशपरिषन्मेलनाभावाच्चाप्रयुक्तं नाटकमस्तीति मनसि निश्चयात्। अद्य खल्वित्यादिना । यद्वा सामाजिकानामभिरूपभूयिष्ठत्वाभाणप्रहसनादिक्षुद्रप्रबन्धप्रयोगेण परितोषं सम्पादयितुं न शक्ष्यमित्येतन्मनसि निधाय स्वकरणीयव्याजेनाह - अद्येत्यादि ॥ अद्य इदानीं सभायामभिरूपभूयिष्ठायां सत्यामित्यर्थः । खलु शब्दो हेत्वर्थकः । यतो हेतोरस्मभिरुपस्थातव्यं चितरंजनं कर्तव्यम् । नाट्यस्य सामाजिकप्रीतिरेव पुरुषार्थत्वादिति भावः । अस्माभिरिति बहुवचनेन प्रकृतनाटकप्रयोगे तु नाट्यविद्यनिपुणैर्बहुभिर्भाव्यमिति द्योत्यते । नाटकस्य महाकविप्रणीततया विचित्रकथाबाहुल्यादिति भावः । तथैवाह-नाटकेनेति । तेन स्वेषां भरतविद्याव्रतस्नातत्वं ज्ञाप्यते । अनेन सर्वरूपकप्रधानभूतनाटकेनेत्यनेन बहुपात्राभिनेयत्वं सूच्यते । “भाणप्रहसनादिवत्सु प्रयोगमपि न भवतीति भावः । अनेन प्रयोज्यवस्तुनिवेदनं कृतम् ॥" तहैि बहुधा दुष्ट-