पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २७२ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।

(२७२) अभिज्ञानशाकुन्तलम् । [ चतुर्थः जीवातुरेव रतिस्तथाप्यस्याः प्रेषणेन प्रकृतत्वात्तथोक्तिः । स्नेहप्रवृत्ति विशिनष्टि-कथमपि वचनेन परद्वारेङ्गितेन वा न बान्धवैः कृतामन्यकर्तृकतां प्रयत्नेन निषेधता कविनास्याः स्नेहप्रवृत्तेः स्थायित्वं स्थिरीकुर्वता कोऽपि लोकोत्तरश्चमत्कारातिशयो व्यज्यते । इयं सामान्या साधारणी या प्रतिपत्तिर्गौरवं तत्पूर्वकं दारेषु स्त्रीषु । बहुवचनेन पूर्वोक्तस्य युक्तता ध्वन्यते । स्वया प्रसिद्धगुणवता सता तादृशकुलोत्पन्नेन सुजनताजन्मना धर्मधुरीणेनेत्यर्थान्तरसंक्रमितम् । दृश्या ज्ञातव्या न तु कर्तव्या । अस्माकं तत्र नियोगसंभवात् । ' प्रतिपत्तिः पदे प्राप्तौ प्रवृत्तौ गौरवेऽपि च ' इति विश्वः । नन्वेतादृशप्रेम्णि कथं सामान्यप्रतिपत्तीत्याद्युक्तमत आह-- भाग्यायत्तमिति । अतःपरं वधूवन्धुभिर्न वाच्यम् । यतो वयं वधूबन्धवः । अस्मदुच्यमानं तु पक्षपातितया पर्यवसन्नं सदौदासीन्यमेव गमयेदिति उभयोरनुरूपत्वान्मयाप्यनुमतिरेव कृतेति भावः । पुनरपीप्सितार्थासिद्ध्ययर्थे हेत्वन्तरमाह त्वयीत्यादि । त्वयि स्वारसिकता दृगनुरागातिशयवति त्वयीति यावत् । त्वयि विषये अस्या अरण्यवासित्वात् कैतवानभिज्ञायाः शकुन्तलाया अस्या इति यावत् । कथमपि कथंचित् कृच्छ्रेणोति यावत् । कृच्छ्रत्वं नाम गुरुजनासमेत्या स्वाच्छंदिकविवाहे सद्य एवानिष्ठजनकं गुरुजनेभ्यः शापमप्यविचार्य कथमपीत्यर्थः । तदेवाह-अवान्धवकृतामिति । अनेन यद्यपि राजर्षिकन्यकायाः राजर्षिवरगामितायाः युक्तत्वात्तत्रापि सनिहितस्य परित्यागे कारणाभावाच अनुरूपवरसंनिधानमेव कन्यकाया विवाहहेतुस्तथापि बान्धवाः कुलमिच्छेतीति न्यायेन विवाहस्य वधुजनसंमत्या भाव्यमिति ज्ञाप्यते। अनुरागवशात् बंधुजनानप्यचित्य शकुन्तलया त्वद्विषये प्रवृत्तिः कृतेति भावः । तदेव ज्ञापयति- तामिति । तां त्वदेकवेद्यामनिर्वचनीयामनुभूतामिति यावत् । यद्वा तामुभयवे- द्यामकृत्रिमामुभयोरनुरागविशेषमुभावेव जानीथस्तथैव परस्परं वर्तेयाथामित्यभिप्राय: स्नेहप्रवृत्तिं स्नेहशब्देन द्रवीभुतचित्तस्य भावविशेषः कथ्यते । तदुक्तं " विश्रमे परमा काष्ठामारूढे दर्शनादिभिः । यत्र द्रवत्यंतरंगं स स्नेह इति कथ्यते ॥ " इति । तस्य प्रवृत्तिः खारसिकनिर्गलद्वयापारः । मांजिष्टानुरागविशेषसूचकशरीरकार्श्यवैवर्ण्यादिरित्यर्थः । तादृशी स्नेहप्रवृत्तिं च साधु विचिंत्येत्यनुषज्यते। साधु पश्चात्तापपुरःसरं विचिंत्य क्षणमपि त्वद्विश्लेषासहां तादृशीमेतावंतमनेहसं विहाय स्थितमित्यनुशयपूर्व विशेषेण चिंतयित्वा । अत्र विचिंत्येति ल्यप्प्रत्ययेन विशेषवाचकोपसर्गेण च चिंताया निर्णयांतत्वमुच्यते । दारेषु कलत्रेषु सत्सु बहुवचनेनरत्नाहारी तु पार्थिव इति न्यायेन राजानो बहुवल्लभा इत्यभिधानेन च बहुकलत्रपरिग्रहः समुचित इति ज्ञाप्यते । निर्धारणे सप्तमी । सामान्यप्रतिपत्तिपूर्वकं कलत्रांतरसाम्यज्ञानपुरःसरं त्वया अस्मत्संदेशवाक्यद्वयार्थविशेषचिंता-- निर्णयांतज्ञानवता त्वयेति यावत् । एकवचनेन स्वारसिकतया स्वकृतानुरागविशेषादिकं "