पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २७३ )
टीकाद्वयसहितम्।


भावः । अत्र मयैतन्न वक्तव्यमिति विशेषे प्रस्तुते यत्सामान्यवचनं तेनाप्रस्तुतप्रशंसा । किं तर्हि तत् । भाग्यायत्तं दैवायत्तम् । अथ वधूवन्धुमिरस्मा भिरतः परं न वाच्यम् । नियोगत्वेन पर्यवसानादिति भावः । अतो भाग्यायत्तं येन भाग्येन युवयोरेतादृशोऽनुरागस्तदधीनमेव सर्वमिति भावः । खलुर्हेत्वर्थस्तेन काव्यालिङ्गमपि । यद्वातः परं महिपीत्वाभिषेकादिकं


स्वयमेव जानासीति सूच्यते । तादृशेन त्वया इयं कत्पोपिता शकुन्तला दृश्यः उक्तहेतुभिर्द्रष्टुं योग्या त्वत्कटाक्षपतनार्हेति यायत् । तर्हि लोके पित्रादिभिः कन्यकाया जामातरं प्रति विशेषप्रतिपत्त्यादिकमेव प्रार्थनीयं तत्कथं सामान्यप्रतिपत्त्यादिकं प्रार्थ्यत इत्यत आह-अतः परमिति । अतः सामान्यप्रातिपत्तेः परं भिन्नं विशेषप्रतिपत्यादिकं खलुशब्दो हेत्वर्थकः । अतो हेतोः भाग्यायत्तं जन्मांतरोपार्जितसुकृतविशेषाधीनं न तु कन्यकायाः कुलाभिजास्यसौंदर्यविनयादिगुणविशेषायात्तमिति यावत् । अनेन गर्ह्योस्चः शकुन्तलायाः सौशत्यादिबहुगुणयोगिता सूच्यते । ततो हेतोः तद्विशेषप्रतिपत्यादिकं वधूबंधुभिः वधूनामासैर्न वाच्यम् । न याच्यनित्यपि पाठः । अत्र श्लोके अन्यापि योजना क्रियते । अस्मानिति बहुवचनेन काश्यपगौतमीशार्ङ्गरवादिशिष्या गृह्यन्ते । तादृशेषु बहुध्वस्मासु सत्स्वपि त्वया कोऽपि न पृष्ट इति राज्ञ्यपराधारोपः प्रकाश्यते । तर्हि तात्कालिकसुखप्राप्त्यर्थे कृतपरकन्याहरणजनितपापस्य फलं कालांतरे परलोके अनुभविष्यामि राज्ञो मम क इदानीं शिक्षक इत्यत आह-संयमधनानिति । अनेन स्वस्य कोपप्रसादयोः शापानुग्रहाभ्यां सद्यः फलप्रदत्वं व्यज्यते । साधु विचिंत्यात्मनः उच्चैः कुलं साधु विचिंत्येत्यनेन कलंकरहितचिरंतनस्ववंशस्य तपोधनत्रिपयकापराधकरणात् क्षतिकरणं तव नचितमिति व्यज्यते आत्मन इत्येकवचनेन स्वकृतशकुन्तलापरिणयरुपवृत्तांतं स्वयमेव जानासि न त्वन्यदुष्टजनबोधनात् कृतशकुन्तलासंगमस्त्रमहानते स्वस्येवापराधः न तु निकटवर्तिनामिति ज्ञाप्यते । तात्कालिकसुखानुभवार्थे यत्किंचित् कृतं तदांतं किमर्थमनुष्ठेयमित्यवज्ञा नोचिता । किंतु उक्तहेतूनां विशेषप्रतिपत्तिरेवों चितेति भावः । पुनरपि हेवन्तरेण विशदयति-त्वयीत्यादि । त्वयीव्यधिकरणसप्तमी । त्वयीत्येकवचनेनात्मनः खतंत्रतया सकृतं स्वयमेव जानासि । यदि त्वया विशेषप्रतिपत्तिर्न क्रियते शकुन्तलाविषये तदा त्वत्कृतानुरागविशेषज्ञापकस्तत्र निकटवर्त्यन्यजनो नास्तीत्यविदितान्यजनात्मकृत्यताज्ञानं प्रकाश्यते । अस्याः शकुन्तलाया: । संबंधे षष्ठी । कथमपि कथंचित् यत्नेनेति यावत् । यदाहोत्पलः « ज्ञातहेतुविवक्षायामप्यादिकथमंत्र- भाक् । कथमादि तथाप्यन्तं यत्नगौरववाडयेः । ’ इति । तां त्वदेकवेद्यां शकुन्तलासंबंधिनी यत्नेन त्वत्कृतां तामिति यावत् । कथमपि तामित्यनेन स्वस्यासन्निधानेऽपि शकुन्तलासंगमार्थे यत्नेन त्वत्कृतानुरागविशेषशपथादिकं सर्वे तपोमहिम्ना ज्ञातमिति परिग्रह्यहुत्वेऽपीत्याद्यनुरागविशेषद्योतकशपथवाक्यं दुष्यन्तस्य स्मार्यते । अवांधवकृत- ज्ञातिजनासमवायकृताम् । अवांघवकृतामित्यनेन बंधुजनासंमत्या स्वाभिसरणभीरुकायाः