पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २५६ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


'गौतमी'–जदे, एसो दे आणन्दपरिवहिणा चक्खुणा परिस्ससन्तो

विअ गुरू उवट्टिदो । आआरं दाब पडिवञ्जस्स । [ जाते,

एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः। आचारं तावत्प्रतिपद्यस्व] शकुन्तल-( सव्रीडम् ' ) ताद, वन्दामि । [ तात वन्दे ] कश्यपः-वत्से ,

'ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ।। ७ ।।


भ्युत्थानवन्दनादिकं प्रतिपद्यस्व । तात,वन्दे । ययातेरिति । अनेन क्रमरुक्षणमङ्गमुपक्षिप्तम् । ‘तत्त्वोपलब्धारिष्टस्य क्रम इत्यभिधीयते’ इति । आशीर्वादव्याजेन तस्य वरत्वेन च कथमादाशीर्लक्षणो नाट्यालंकारोऽ


नु जिज्ञासायाम् । व्यभिचारादीनां वाच्यत्वं यद्यपि दोषः तथापि यत्र तैरन्योऽर्थ: प्रतिपाद्यते तत्र वाच्यत्वेऽपि न दोषः । यथा प्रकृते उत्कण्ठचिन्ताविश्लेषवशब्दवाच्यावेग विश्लेषदुःखशब्दवाच्यशोकानां वाच्यत्वेऽपि मुनित्वे स्वाभाविकवैराग्योपबृंहतधैर्यलक्षण भावस्य शांतेर्व्यंगत्वेन न दोषः । उत्कंठादीनामपि व्यंग्यत्वे भावशांतेरपि व्यवहितत्वेन चमत्कारो न स्यात्। तथाच सहृदयरंजनं झटिति न भवतीति अथ उत्कंठादीनां वाच्यतैवोचिता।

जाद इति। चक्षुषस्तावदानंदपरिवाहित्वं यथाजलाधारभूते तटां जलातिशये

सत्युकूलप्रवाहः तद्वदानन्दस्याप्रीत्यर्थ : । आचारः प्रत्युत्थानवंदनादिः ॥ ययातेरित्यादि ययातिर्नामनहुषपुत्रः सोमवंशी राजा। शर्मिष्ठेति वृषपर्वनाम्नोऽसुरराजस्य पुत्री । वहुमता जाता मत गरविता भवैःयाशिषि लोट् । यश्च पूर्वपरिपीतद्देवयान्यां वैमुख्येन यत्रतैः शर्मिष्ठ

तथा स्वांत:पुरस्त्रीषु वैमनस्याद्दुष्यन्तस्य पट्टमहिषी भवेति यावत् ।

तर्हि भोगार्थे वा दुष्यन्तेन परिणतेत्याशंक्याहृ सम्राजं चक्रवर्तिनं पुत्रमित्यनेन धर्म प्रजार्थमेव त्वं पारगृहीता त्वजनितपुत्रस्यैव साम्राज्यमिति भावः । अत्र निदर्शनालंकारः तदुक्तं यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते॥'

इति । अत्र काश्यपेन स्वस्मिन् शकुन्तलायाः स्नेहव्यपगमाय ययाति

शर्मिष्ठापूरुर्निदर्शनं कृतम् । पूरुनिदर्शनेन शकुन्तलापुत्रस्य भरतस्यासाधारणराज्यप्राप्ति सूच्यते । प्रसंगादलंकारसामान्यस्वरूपमुच्यते । ”‘ये त्वंगभूतशब्दार्थद्वारा तं संतमेकदा । अलण्कुर्वन्त्यलंकारा हाराद्या इत्व ते पुनः । ’ प्रस्तुतेऽस्मिन्काव्ये ये पुनर्हराद्या इव शरीरभूतशब्दार्थद्वारेण संयोगवृत्या वर्तमानं विद्यमानं रसं कदाचिदलंकुर्वते ते त्वलंकराः ।

गुणास्तु आत्मीयस्थानीयं रसं समवायवृत्या नियतस्थितयो ये धर्मे उत्कर्षमा