पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २४३ )
टीकाद्वयसहितम्।


जेण असच्चसंधे जणे सुण्णहिअआ मही पदं कारिद । अहवा दुव्वाससो कोवो एसो विञरेदि । अण्णह कहं सो राएसी तारिसणि मन्तिअ एतिअस्स कालस्स देहमेत्तं पि ण विंसीदि । ता इथे अहिण्णणं अङ्गुलीअर्ज से विसज्जेम। दुक्खसीले तवस्सिजणेको अव्भत्थीअदु । णं सहीगामी दोसो त्ति व्ववसिदा वि ण


सकामो भवतु । अयमर्थः । सवद् बौऽनार्येष्वेव प्रवर्तत इति साभि षो भवतु । तस्याभिपः पूयेततमिति । येन कमेनसत्यसंधेऽसत्यप्रतिजे । ‘संधा प्रतिज्ञा मयीदा ' इत्यमरः । जने शून्यहृदया सखी पदं स्थानं कारिता । शून्यहृदयपदं हेवुत्वेनोपत्तम् । अथवा दुर्वाससः कोप एष विकारयत्यन्यथाकारयति । ‘वर्णासहर्षा अन्यथात्वपरिणामेपु ’ इति गणपाठात् । अन्यथा कथं स राजर्षिरिति साभिप्रायम् । तादृशानि मन्त्रयित्वैतावत्कालस्य लेश (ख)मात्रमपि न विसृजति । तदितोऽभिज्ञानमंगुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थते ।


राजानं प्रति स्मारकपत्रलेखादिनिर्माणेषु कृत्येषु । हस्तपादा न प्रसरन्ति । सामप्यभवात्सखीदुःखवशाच्च न प्रवर्तत इति भावः । इदानीं सांप्रतं तादृग्रागातिशयवतो राज्ञः स्वविश्लेपासहनशीलशकुन्तलाविषयकस्मरणाभावे सति सखीभूतायाः स्वस्या अपि तत्स्मारकपत्रलेखनादिनिर्माणसमर्थाभावे सति च सांप्रतमित्यर्थः। कामः रूपलावण्यादिभिरप्रतिभटः सकामो भवतु फलितमनोरथपरंपरासहितो भवतु । रूपलावण्यादिविषये स्वशत्रुभूतदुष्यन्ताविषयकानुरागाद्यतिशयवतीं शकुन्तलामरविन्दाशोकादिविशोषणमोहनादिबाणैः संहर्तु विशेषरूपरंध्रप्राया मदनस्य सकामस्वामिति भावः । शकुन्तलाया चंद्रातपकोकिलालापादिस्मरोद्दीपनविभावजनितदुःखेन मरणमेव शरणमित्यभिप्रायः । अहवेत्यादि । दुःखशलि इति । आश्रमवासित्वाद्रूपलावण्याद्यपोषकपरिमिताहारादिक्लिष्टे तपास्विजने अनागरिकजनविपये शकुन्तलायामित्यर्थः । कः अभ्यर्ध्यते को वा जनः प्रार्थ्यते प्रार्थनां कुरूत इति यावत् । राजव्यतिरिक्तो जनः प्रार्थनां न कुरुते । "रत्नहारी तु पार्थिवः" इति न्यायेन लोकोत्तरवहुत्रोपरिभावी राजा कथं प्रार्थ्यत इति भावः । अभ्यर्थ्यत इति वर्तमानव्यपदेशेन अनुरागभावे कथं संभोगादिकं कृतमित्याशंक्य तात्कालिकमदनवाधानिवृत्यर्थमेव तृतीयेऽङ्के अनुरागप्रकटनं राज्ञा कृतं नत्वांतमनुद्धेयमिति व्यज्यते ।


१ सउंदला ( शकुंतला ) इति ई० पू० पाठः । २ एव्वं ( एवं ) इति ई० पू०

पाठः । ३ अभत्थीअदि (अभ्ययर्थ्यते ) इति क० पु०९ पाठः ।