पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४२ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


[ यद्यपि नाभ विषयपराङ्मुखस्यापि जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम्]

 शिष्यः- यावदुपस्थितां होमवेलां गुरवे निवेदयामि । ( इतेि निष्क्रान्तः )

 अनसूया--पडिबुद्धा वि किं करिस्सं । ण में उइदेसु वि णिअकरणिजेसु हृत्थंपाआ पसरन्ति । कामो दाणिं सकामो होदु ।


पटीका प्रतिसीरा जवनिका तिरस्करिणी’ इति हलायुधः । यद्यप्येवमपि नाम विषयपराङ्मुखस्यापि जनस्याप्येतन्निवेदितमपि न विदितमेवेति योज्यम् । अथेरवधारणार्थत्वात् । तथापि तेन राज्ञा शकुन्तलायमनार्यमाचरितम् । होमवेलानिवेदनार्थं गते शिष्येऽस्यास्तत्र संमार्जनादि कर्तृमार्याया एव प्रबोधकाल इति वदति । प्रतिबुद्धोत्थितापि किं करिष्ये । न म उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति । काम इदानीं


पनोदनेन । सूचनं विनैव प्रविश्येत्यर्थः । हर्षशोकादिजनितसंभ्रमयुक्तस्य पात्रस्य प्रवेशः पटाक्षेपेण क्रियत इति काव्यव्यवहारः । एवमित्यादि । विषयपराङ्मुखस्येति विषयेषु स्रक्वंदनाद्युपभोगार्थेषु पराङ्मुखस्योदासनस्य । " विषयः स्यादिंद्रियार्थे देशे जनपदेऽपि च ।" इति विश्वः । विषयरसानभिज्ञस्य वीतरागस्यापति यावत् । जनस्येति जनशब्देन जननमात्रमुच्यते न तु लौकोत्तरनस्त्रीरत्नसंभोगविषयक्रीडाविरहजनितसुखदुःखानुभवज्ञस्येति भावः । एतादिष्टजनप्रवासदुःखं कांताजनस्यासहमिति यदेतदित्यर्थः । तथाविधेनेत्यनेन " परिग्रहबहुत्वेऽपि " इत्यादिना धर्मप्रजार्थमेव शकुन्तला परिगृह्यत इति दुष्यन्तकृतशपथादिकं सूच्यते । राज्ञेत्यनेन नागरिकतया राज्ञो वंचनाप्रकारसामर्थ्यमुक्तम् । शकुन्तलायामित्यनेनारण्यवासितया नागरकजमसंसर र्गाभावाद्राजकृतवचनाभिज्ञत्वासाभर्येमुकम् । अन्याय्यं स्वग्नयोजने निवृत्ते स्वविश्लेषदुःखितां शकुन्तलां न स्मरतीति यत्तदन्याय्यमनुचितमिति यावत् । तथाविधेनेत्यनेन तृतीयेऽके ‘‘ तपति तनुगात्रि ” इत्यादिना दुष्यन्तस्य स्वशरीरकार्शवैवण्यदीनां शकुन्तलाविरहनिमित्तत्वकथनं स्वप्रयोजनार्थं कृत्रिमं न तु स्वाभाविकमिति भावः । अहवेत्यादि । अथवेति पक्षांतरे। प्रतिबुद्धपि ज्ञानवत्यपि । यद्यपि राज्ञस्ताक्प्रागातिशयस्तथाप्यन्तःपुरस्रीगणहृतचततया विस्मरणकारणं ज्ञातवत्यपीति यावत् । उचितेषु


१ अहवा ( अथवा ) इत्यधिकं क्व० पु० । २ (हस्तपादाः प्रसरंति) इति संस्कृते पाठः ।