सामग्री पर जाएँ

पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २३३ )
टीकाद्वयसहितम्।

 प्रियंवदा -ह []द्धी । ज्ञप्पिअं एव्व संवृत्तं । कस्सि पि पूआरुहे अबरद्धा सुण्णहिज्ञआ । सउन्दला । ( पुरोऽवलोक्य. ) ण हु जस्सिं कस्सिं पि । एसो दुव्वासो सुलहकोवो महेसी । तह सविअ वेज्ञ[]वलुफुल्लाए दुब्बराए गईए पडिणिवुत्तो । को अण्णो हुदवहादो


मत्तः प्रथमं पूर्वं कृतां कथामिव । स राजा कीदृशः ? प्रमत्तोऽवधानराहितः । ‘प्रमादोऽनवधानता ? इत्यमरः । तेनासमर्थदोषः परिहृतः । त्वां कीदृशीम् । पूर्वं कुतामङ्गीकृताम् । काव्यलिङ्गोपमाज़्लेषाः । तयतीयेति मनमानेति नससन्निति प्रप्रैति छेकवृत्त्यनुप्रासाः । वंशस्थं वृत्तम् । हा धिक् । अप्रियमेव संवृत्तम् । कस्मिंश्चिदपि पूजार्हेपराद्धा शून्यहृदया


विचिन्तयंती विशेषेण चिन्तयंती त्वमिति शेषः । अत्र त्वमिति विशेष्यपदोपादानाभावस्त्वागन्तुकावमानकरणादक्ष्लीलनामोच्चारणायोग्यताभिप्रायः । मां न वेत्सि । मामित्यनेन त्वस्य इतरऋषिवैलक्षण्येन शीघ्रकोपोदयत्वमानासहिष्णुत्वं च व्यज्यते । तर्हि विप्रकृष्टं कथं वेद्दीयत आह-उपस्थितं सन्निहितं न तु दूरस्थमित्यर्थः । उपस्थितमित्यनेन स्ववावस्थितिस्थलं प्रति बहुदूरमप्यागत्व जनैः सस्कारयितुं योग्यस्तादृशं निकटवर्तिनं मां न जानासीति व्यज्यते । तर्हि प्रमादार्तिचित्पापमुपनतं तत्परलोके अनुभबिंख्यामीत्यत आह तपोनिधिमिति । अनेन त्वस्य कोपप्रसादयोः सद्यः फलप्रदत्वं ज्ञाष्यते । न वेय्सीति वर्तमानव्यपदेशेनाद्यापि न वेत्सति स्वकृतबहुनिवेदनं व्यज्यते । तेन शापदाने स्वस्मिन् दोषाभाव उक्तः ? सत्वां न स्मरिष्यति सः त्वचिन्ताविषयस्त।शवद्विषयकसुरायातिशयवान्पुरुषः त्वां तादृशानुरागवतीभननुभूतां त्वामित्यर्थः । न स्मरिष्यति त्वद्विषयकस्मरणं न कार्याति। तर्हि तेन तेन त्मारकलिंगेन,थोवध्यते चेत् त्मारिष्यतत्यत आह वोधितोऽपीति । बोधितोऽपीत्यनेन निकटेन त्वा स्मारितोऽपि स्खकृर्त वृत्तान्तं न स्मरिष्यति दूरे स्मारकपत्रलेखदिनेषणेन स्मरणं कुत इति भावः। न स्मरिष्यतीत्यनेन स्मरणमेव नास्ति तत्संपदिकं कुत इत्यभिप्रायः । स्मरिष्यतीति भविष्यद्वयपदेशेनेदानीं दायि तस्य गाढानुरागातिशयो विद्यते । इतःपरं भच्छापबलान्न स्मरिष्यतीति व्यज्यते । न ह्यन्तःपुरस्त्रीगणापहृताचित्ततया चिरविक्ष्लेषेण च तव स्मरणभावः किंतु मच्छयापबलादिति भावः । अत्र दृष्टतमाह-प्रमत्त इति । यथा मदनीयद्यसेवया प्रकर्षेण मत्तः प्रथमं कृतां पूर्वक्षणोक्त्ता कथां वार्ता योधितोऽप्यकथितपूर्वामित्र उत्तरक्षणे न स्मरिष्यति तथेत्यर्थः । यथा मया बहुधा केध्यमनापि त्वन्निकटवर्तिने मां न वेत्सि तथा त्वां दुष्यन्त इति भावः । हद्धत्यादि । प्रकृतिवक्र इत्यनेन शापान्ताकथनशंकया सविषादमि-


  1. हृद्धी ही तदेव संवृत्तं जस्सि कस्सि वि ( हा धिङ् हा धिङ् तदेव संवत्तं यस्मिन्कस्मिन्नपि ) इति क्व० पु० पाठः ।
  2. बडुल (चदुल ) इति ई० पु० पाठः ।