पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २३२ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 प्रियंवद्-णं उडजसंणिहि सउन्दला । ( आत्मगतम् ) अज्ज उण हिअएण असंणिहिदा। [ ननूटजसंनिहिता शकुन्तला। अद्य पुनर्हृदयेनासंनिहिता ।

 अनसूया-होदु । अलं एत्तिएहिं कुसुमेहिं । [ भवतु । अलमेतावद्भिः कुसुमैः ।

( इति प्रस्थिते )

( नेपथ्ये )

आः ’ अतिथिपरिभाविनि,

विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि
सन्कथां प्रमत्तः प्रथमं कृतामिव ॥ १ ॥


चयलक्षणमेव । सखि, अतिथीनामिव निवेदितम् । भावे क्तः । ननु संबो धने । उटजसंनिहिता शकुन्तला । अद्य पुनर्हृदयेनासंनिहिता । दुष्यन्तग- तहृदयेत्यर्थः । भवतु । अलमेतावद्भिः कुसुमैः। विचिन्तयतीति । यं विचिन्तयन्त्यनन्यमानसा त्वं मां दुर्वाससमुपास्थितमागतं तपोधनम् । त्रयं विधेयम् । न वेत्सि स त्वां स्वयं न स्मरिष्यत्येव परंतु बोधि तोंऽपि ज्ञापितोऽपि न स्मरिष्यतीस्यापिशब्दार्थः । कः कामिव । प्रकर्षेण


इति स्वगुणतारतम्यानभिज्ञजनसंबोधने अयमहमागत इत्यनेन निकटे आगते इत्यर्थः । नेपथ्य इत्यादि। आः इति अपमानजनितपीडायां निपातः। "अस्तु स्यात्कोपपीडयोः ” इत्यमरः । तेन पीडाजनितः कोपः सूचितः । कोपे करणमाह-अतिथिपरिभाविनीति । आगंतुकावमानिनि । अतिथिपरिभाविनीत्यनेनातिथिस्तु सत्कारयोग्यः बहुधूरागत- क्षुत्पीडितातिथिः केनोपाधिना स्वकृतावमानं सहत इति भावः । स्वकृतावमानस्यानु- भूयिष्यमाणफलमाह-विचिन्तयन्तीयमित्यादि । इयं स्वभिलाषविषयकं पुरुषमनन्य- मानसा तदेकतानचित्ता अनेन नायकस्मरणेऽपि तत्संपर्कजनितानन्दसमानसुखानुभवः सूच्यते । तेन च विगलितवेद्यान्तरत्वेन उचितकार्येऽपि प्रवृत्त्यभावे व्यज्यते ।


१ तपोनिधिं इति क्व० पु० पा० ।