पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १६७ )
टीकाद्वयसहितम्।


 राजा-अनुगृहीतोऽस्मि ।
 विदूषकः-( अपवार्य ) एस दाणिं ञणुऊला ते अब्भत्थणा १ | एषेदानीमनुकूला तेऽभ्यर्थना ।
 राजा-( स्मितं कृत्वा ) रैवतक, मद्वचनादुच्यतां सारथिः सबाणोसनं रथमुपस्थापयेति ।
 दौवारिकः-“ देवो आणवेदि । (इति निष्क्रान्तः )[ यद्देव आज्ञापयति ।
 उभौ–( सहर्षम् )

अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षितः खलु पौरवाः ॥ १६ ॥


वतः इति पाठः । तत्र संनिधानादिति संबन्धः । एपेदानीमनुकूलाभ्य र्थना । ते तव । बाणासनं धनुः । यद्देव आज्ञापयति । अनुकारिणीति । पूर्वेषां पुरुप्रभृतीनामनुकारीणि सदृशे । चारित्र्येण रूपेण शौर्येण दानेन पाविष्येणेत्यादि ज्ञेयम् । युक्तरूपमतिशयेन युक्तम् । प्रशंसायां रूपप् ! आपन्ना अपर्युक्ताः । ‘ आपन्न आपत्प्राप्तः स्यात् । इत्यमरः । तेषां यद्भयं तदेव सत्रं यज्ञविशेषः । तत्र दीक्षिताः कृतदीक्षा इति रूपकम् । अनेनावश्यकर्तव्यत्वं भयापसारणस्य ध्वन्यते । खलु यस्मा


उत्पादयन्ति संपादयन्ति । सारथिर्द्वितीयो यस्य स तथोक्तः । सनाथीक्रियतां ऋषेरसंनिधानादनाथः इदानीं नाथसहितः क्रियतां निर्विन्नं क्रियतामित्यर्थः । अनेन राज्ञः शूरत्वं प्रकटितम् । तदुकम् * सहाय्यमन्तरेण शत्रुजेता शूरः " इति । अत्र सारथद्वितीयेनेत्यनेनासाहाय्यत्वं सूचितम्। तेनैव युद्धशूरत्वं प्रकटीचकार। अपवायैत्यादिना अपवार्यं प्रच्छाद्य । नाट्यै ‘‘ अपचारितकं कार्यं त्रिपताकेन पाणिना ’ इति भरतेनोक्तम् । इञमिति । इदानीं सांप्रतं शकुन्तलादर्शनार्थमुपायबिचारसमय इति याबतू १ -अनुकूला अनायासेन तद्दर्शनाद्यनुरूपा । अनुकारिणीत्यादि । खलु थतः कारणात् पौरवाः पुरुवंशोद्भवा राजानः नतु त्वमेक एवेति यावत् । आपनाभयसत्रेषु दक्षिताः गृहीतव्रताः तस्मात्पूर्वेषां पुरुवंशनृपाणाम्। कर्मणि षष्ठी । अनुकारिणि अनुसारिणि पूर्वेषामनुकारणस्यनेन केषांचिद्राज्ञां वंश्याः शूराश्चशूराश्च भवन्ति पौरवास्तु न तथा किन्तु सर्वे शूरा इति व्यज्यते । इदम् आपन्नपारत्राणं युक्तरूपं सुष्टु शुकम् । प्रशं


१ कार्मुक इ० पा० १ २ जेदु भठा ( जयतु भर्ता ) इत्य० व० पू० ।