पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ८५ )
टीकाद्वयसमेतम्


चंलापांगां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनंमि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तस्यान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २३ ॥


तलांगुलिः ॥ 'इति । चलापांगामिति । हे मधुकर, वयं कथमेतदीयकटाक्षगोचरा भूयास्म, कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्णयेत्, कथ नु हठादनिच्छुन्त्या आपि परिचुम्बनं विधेयास्मेति यदस्माकं मनोराज्यपदवीमाधिशेते ते वयम् । बहुवचनेन स्वस्मिन्पूजा । अस्मच्छब्दः सकलधराधिपत्यपुरुवंशोत्पन्नत्वानेकविधाभिलाषचाटुकप्रवणत्वेत्याद्ययार्तंरसंक्रमितवाच्यः । तत्त्वान्येषाद्वस्तुवृत्तान्वेषणया हताः । निरुद्धप्रवृत्तय इत्यर्थः । आयासमात्रपत्रीभूता इति भावः । ' मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ' इत्यमरः । त्वमित्येकवचनेनास्य निकृष्टत्वम् । युष्मच्छब्दस्तु स्फुटंज्ञानराहित्याद्यर्थान्तरसंक्रमितः । अतएव मधुकरेति सबुंद्धिः । कुती । कृतबहुकृत्य इत्यर्थः । ‘ भूभार्थे इनिः ' । खल्विति निपातेनायत्नसिद्धं तब चरितार्थत्वमिति ध्वन्यते । अथ हता इति विशेषणोपादानात्साविशेषणस्य निषेधो वक्तव्य इति बहुवचननिषेधाद्वयमित्यनुपपन्नमितेि केचित् । तदविचारितरमणीयम् । यतो विशेषणं


अभिनयति ॥ चलेति । खलु यतो हेतोश्चलापांगं इष्टः चलात्रपांगौ अस्मिन् कैर्मणि ततश्रोक्तं दृष्टः सन् त्रपथुमतीं कंपवनीं बहुशः व्रावारं स्पृशसि । रहसि भवं २ह्रस्यं तदाख्यायीव वदन्निवेत्युत्प्रेक्षा । कर्णातिकचरः सन् मृदु ललितं नायक्रपक्षे सानुनयमित्यापि न यथा भवति तथा स्वनसि शव्दायसे । गुप्तं भाषस इत्यपि च रतिसर्वस्वं रतेः सुरतस्य सर्वस्वं निखिलमूलधनं सारांश इति यावत् । " रतिः स्मरप्रियायां च रागे च सुरतेऽपि च " इति विश्वः । पिबसि पानं करोषि निःशंकं चुंबसीति भावः । वर्तमानव्यपदेशेनाद्यापि चुंबसीत्यनायासेन तस्य भाग्यातिशयः । वयमिति बहुवचनेन नागरिका इति द्योत्यते तादृशा अपीति यावत् । यद्वा अहमेक एव न भवामि मत्सदृशा अनेके इति द्योत्यते । हृताः वंचिताः तत्र हेतुमाह तत्त्वान्वेषात् जातिनिश्चयं परामृश्य ल्यब्लोपे पंचमी । मधुकर इत्यनेन तिर्यग्जन्नुत्वं विवक्षितम्। कृती धन्यः भाग्यं तु मनुष्याणामेवेति नियमो नास्तीति भावः । अनेन नायकेन मुग्धा नायिका नवसंगमे कुकुटवृत्या बलादृहीत्वोप्रभोक्तमुचितेति ति द्योत्यते । अत एतन्न कृतमिति निर्वेदः। किंचात्र भ्रमरवृत्तांतकथनेन


। चलापाङ्गं दृष्टः इ० पा० । २ करमिति पा० ।