पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ८६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


द्विविधम्, अनुवाद्यं विधेयं च । तत्रानुवाद्यविशेषणेऽयं निषेधो न विधेये | अत्र च तस्य विधेयत्वान्ननुपपत्तिः । तथा च वृत्तावुदाहृतम्- ' पदुरहं ब्रवीमि ' इति । अत्रैव पदमञ्जरीकारवचनम् -- कथम् ' त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ' इति । अत्रोन्नतत्वं विधीयते । ' नहि विधेयोऽथ विशेषणं भवति ' इति । तत्कथमित्याह चलेति | चलापाङ्गामित्यनुवाद्यविशेषणम् । वेपथुमतीं त्वदाशाङ्काकातराम् । दृशं नीलोत्पलधिया पुनः स्पृशसि । रहस्यमाख्यातुं शीलं यस्य स इव कर्णान्तिकचरः श्रवणसमीपगो मृदु ध्वनसि श्रवणावकाशपर्यन्तत्वाच्च नीलोत्पलशङ्कनपगमाच्च तत्रैव दुन्ध्वन्यमान आस्से । करौ व्याधुन्वत्याः सहजसौकुमार्यमासकातरायाश्च रतिनिधानभूतं विकासतारविन्दकुवलयामोदमदुरबन्धूकबन्दुरमधरं पिबसीति प्राञ्चः । अधुनातनास्तु चलापाङ्गं दृष्ट इत्यनुवाद्यविशेषणं वाक्यत्रयशेषभूतम् । एवमन्तिकचर इत्यापि । तत्र यतोऽन्तिकचरस्ततश्चलापाङ्गं दृष्ट इति हेतुहेतुमद्भावशेषभूतत्वादेन नावृत्तिः । यतो दृष्टस्ततःस्पृशसि स्वनसीति योज्यम् । ' कर्णातिक्र- ' इत्यादिपाठे चत्वारो वयमृत्विजः स भगवान्कमेपिदेष्टा हरिः संग्रामTध्यदीक्षितो नरपतिः पत्नी गृहीतव्रता ' इयादिवदभवन्मतयोगः


तत्त्वान्वेपाद्यं हुता इत्यनेन प्रथमं वस्तुसौंदर्यबलान्मदनकातयांसहिष्णुर्बलान्छकुन्तला प्राह्येति विचारितवान् ततो जातिनिश्चयाभावात्स्यविनयादिसौशील्यगुणेन स्वचित्तं निगृह्य तूष्णीं स्थित इति भावः । अत्र भ्रमरविशेषणसाम्यादप्रस्तुतनायकप्रतीतेः समासोक्त्यलंकारः । तदुक्तम्- " विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते ।। " इति उत्प्रेक्षासमासोक्त्योः संसृष्टिः । तदुक्तम् -‘‘ अलंकृतीनां वृत्तीनां द्वयोर्वापि रामाश्रयः । एकत्र निरपेक्षाणां मिथः संमृष्टिरुच्यते ।। ” इति । संसृष्टिसंकरस्वरूपमुच्यते । सर्वालंकाराणां संश्लेपसमुत्थापितेऽलंकारो द्विविधः । तत्रसंश्लेपः संयोगन्यायेन समवायन्यायेन च द्विधा संयोगो यत्र भेदस्योत्कटतया स्थितिः । समवायो यत्र तस्यैवानुत्कटत्वेन वर्तमानत्वम्। तत्रोत्कटत्वेन स्थितौ । तिलतंदुलन्यायः । इतरत्र क्षीरनीरसादृश्यम् । एतेषां मिथत्वे तिलतंदुलयोरिचोत्कटविभेदत्वे शब्दार्थोभया संसृष्टिः त्रिविधेति पूर्वोचर्यैरुक्ता । अलंकाराणां यथासंभवं यदि क्वाचिद्युगपद्घटना स्थात् तदा ते किमपृथक्त्व एव पर्यवसिता उतालंकारांतरमेव किंचिदिति विचार्यते । तत्र यथा बाह्यालंकरणां सौवर्णमणिप्रभृतीनां पृथक्चारुता हेतुत्वेऽपि संघटनाकृतं चारुवान्तरं जायते तद्वत् प्रस्तुतालंकाराणामपि संयोजने चारुतांतरमुपलभ्यते । नालंकारोतरप्रादुर्भावोsपृथक्त्वपर्यवसानमिति निर्णयः । अलंकारांतरत्वे च संयोगन्यायेन स्फुटावगमो इति भेदः । समवायन्यायनास्फुटावगम इति द्वैधम् । पूर्वत्र संसृष्टिस्तरत्र