दद साधोऽजरासाजरामाभी रहितोऽमल ।
रम तो हितकृत्सार रसास्पृकूहृदयेऽपर ॥ १७ ॥
दह पापं विशां ध्येय नित्यं मुनुक्षुराड्वर ।
ललन्कंकलरम्भाद दभारं शंकर सक ॥ १८ ॥
ददं भन्दवदं सकृद्गुरुं भजत सामकम् ।
कल्पकल्पं कर्मकषं कजकम्रकरं कमम् ॥ १९ ॥
छत्रम् ॥ १३ ॥ हे साधो, त्वं रसास्पृशां नृणां हृदयं रसास्पृग्वृदयं तस्मिन् रम इति संबन्धः । हे दद ददातीति ददस्तत्संवोधनम् । हे अजर न विद्यते जरा यस्य तत्संवोधनम् । हे अमाज न विद्यते माजः कन्दर्पो यस्य तत्संबोधनम् । कीदृशस्त्वम् । रामाभिः स्त्रीभिः रहितः, यद्वा त्वं कीदृशः । जरामाजरामाभीरहितः जरा च माजश्च रामाश्च ताभिः । परवल्लिङ्गम् । हे अमल न विद्यते मलः कर्मरूपो यस्य तत्संबोधनम् । पुनः कीदृशस्त्वम् । तः सुवेषः । 'तः सुवेषो मता नारी' इत्येकाक्षरानेकार्थनासकोशे । पुनः कीदृशस्त्वम् । हितं करोतीति हितकृत्, हे सार हे श्रेष्ठ, हे अपर न विद्यते पराः शत्रवो रागद्वेषादयो यस्य तत्संबोधनम् ॥ १७ ॥ शङ्खः ॥ १४ ॥ हे मुमुक्षुराड्वर मुमुक्षुराज्ञां मध्ये वर श्रेष्ठ, हे ध्येय ध्यातुमर्ह, त्वं विशां पापं दह । कथम् । नित्यम् । हे ललन्कंकलरम्भाद ललतीति ललन् तच्च तत्कं च ललन्कं तदेव कलरम्भा मनोज्ञकदली तां ददातीति तत्संवोधनम् । अरं अत्यर्थे दम दं दानं तेन भातीति दद्भत्तत्संवोधनं हे शंकर, हे सक सह केन सुखेन वर्तत इति सकस्तत्संवो-धनम् ॥ १८ ॥ त्रिशूलम् ॥ १५ ॥ सो जनाः, यूयं सकृदपि अपीति गम्यम् ।आस्तामनेकवारं एकवारमपि ममेदं मामकं गुरुं हिताहितोपदेशकं भजत सेवत । कीदृशम् । ददातीति ददस्तम् । 'ददातिदधात्योर्विभाषा' इति शस्तम् । पुनः कीदृशम् । मन्दं कल्याणं वदतीति भन्दवदस्तम् । 'भन्दं कल्याणे सौख्ये च' इति हैमानेकार्थकोशः । पुनः कीदृशम् । कल्पकल्पं कल्पो देवभूरुहस्तत्सदृशः कल्पकल्पस्तम् । 'ईषदपरिसमाप्तौ कल्पव्देश्यदेशीयरः' । पुनः कीदृशम् | कर्माणि कषति हिनस्तीति कर्मकषस्तम् । पुनः कीदृशम् । कजकम्रकरं कजं पद्मं तद्वत्कम्रौ कमनीयौ करौ इस्तौ यस्य तम् । पुनः कीदृशम् । कमं कं सुखं मयते प्रतिददातीति । 'मेङ् प्रणिदाने' इति वचनात् । यद्वा कस्य