हंहो शालूरवीराः कथमिति कुरुत प्रावृषेण्याम्बुवाह-
व्यूहादासाद्य सद्योऽप्यभिनवविभवं गर्वकोलाहलानि ।
स्मर्तव्यः सोऽपि कालः कमलकुलरिपुश्चण्डमार्तण्डधामा
नामापि श्रोत्रपात्रं न भवति भुवने यत्र युष्मद्विधानाम् ॥ ७४ ॥
रे रे भेक गलद्विवेककटुकं किं रारटीष्युत्कटो
मत्वैव क्वचनापि कूपकुहरे त्वं तिष्ठ निर्जीववत् ।
सर्पोऽयं स्वमुखप्रसृत्वरविषज्वालाकरालो महा-
ञ्जिह्वालस्तव कालवत्कवलनाकाङ्क्षी यदाजग्मिवान् ॥ ७५ ॥
एतस्मिन्सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना
किं कोलाहलडम्बरेण खलु रे मण्डूक मूकीभव |
उन्मीलन्नयनावलीदलचललक्ष्मीरणन्नूपुर-
व्याहारप्रतिवादिनः प्रतिदिनं प्रेषन्ति हंसस्वनाः ॥ ७६ ॥
रे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्भो विशालं
किं मद्धाम्नोऽपि बाढं नहि नहि सुमहत्पाप मा ब्रूहि मिथ्या ।
इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंसं
नीचः स्वल्पेन गर्वी भवति हि विषमो नापरो येन दृष्टः॥७७॥
तावद्गर्जति मण्डूकः कूपमाश्रित्य निर्भयः ।
यावत्करिकराकारं कृष्णसर्पं न पश्यति ॥ ७८ ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराज्यपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिस-
मुच्चितायामन्योक्तिमुक्तावल्यां स्थलचरजलचरान्योक्तिनिरूपको द्वितीयः परिच्छेदः ॥ २ ॥
तृतीयः परिच्छेदः ।
ज्ञाने पदार्थाः प्रतिबिम्ब्य यस्यानेके निवासं दधिरे विबाधम् ।
स्फटामिषात्सप्तनयारिपुत्वं त्यक्त्वा च तस्थुः स सुखाय पार्श्वः ॥ १ ॥