सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
अन्योक्तिमुक्तावली ।

 हे लक्ष्मि क्षणिके स्वभावचपले धिङ्मूढपापाधमे
  न त्वं धीरविशेषमिच्छसि किल प्रायेण दुश्चारिणि ।
 ये ये पण्डितसत्यशौचनिरता ये चापि धर्मे रता-
  स्तेभ्यो लज्जसि निर्घृणा गतभिये नीचो जनो वल्लभः ॥११७॥
 भो लोका मम दूषणं कथमिदं संचारितं भूतले
  नोत्सेका क्षणिकातिनिर्घृणतरा लक्ष्मीरतिस्वैरिणी ।
 नैवाहं कुलटा न चापि चपला नैवं गुणद्वेषिणी
  पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ ११८ ॥
  गुणिनां गुणमालोक्य निजवन्धनशङ्कया ।
  राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते ॥ ११९ ॥
  तावन्माता पिता चैव तावत्सर्वेऽपि बान्धवाः ।
  तावद्भार्या सदा हृष्टा यावलक्ष्मीः स्थिरा गृहे ॥ १२० ॥
  सर्वासामपि नारीणां मध्ये श्रीः सुभगा खलु ।
  स्पृहयन्ति महान्तोऽपि यां स्वेच्छाचारिणीमपि ॥ १२१ ॥
 श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
 उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १२२ ॥
 तावद्गुणगणकलितस्तावन्निजगोत्रमण्डनं परमम् ।
 यावत्करिकर्णचला कमला न त्यजति सत्पुरुषम् ॥ १२३ ॥
  पद्मं पद्मा परित्यज्य स्वावासमपि या व्रजेत् ।
  दिनान्ते सा कथं नाम परस्थानेषु सुस्थिरा ॥ १२४ ॥
  या स्वसद्मनि पद्मेऽपि संध्यावधि विजृम्भते ।
  इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम् ॥ १२५॥
  धर्मः सनातनो यस्य दर्शनप्रतिभूरभूत् ।
  परित्यजति किं नाम तेषां मन्दिरमिन्दिरा ॥ १२६ ॥
 मत्वात्मनो बन्धनिबन्धनानि पुण्यानि पुंसां कमला किलासौ ।
 तद्ध्वंसनायेव धनेश्वराणां दत्ते मतिं दुर्बलपीडनाय ॥ १२७ ॥