पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।


करान्प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
न केवलमनेनात्मा दिवसोऽपि लघुकृतः ॥ ३८ ॥
यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य ।
नित्यं प्रसारितकरः करोति सूर्योऽपि परितापम् ॥ ३९ ॥
उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ४० ॥
निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।
तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ४१ ॥

एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
सौरभ्यं विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमामनन्ति ॥ ४२ ॥

देवो हरिर्वहतु वक्षसि कौस्तुभं तं
मन्ये न काचन पुनर्द्युमणेः प्रतिष्ठा ।
यत्पादसंगतितरङ्गितसौरभाणि
धत्ते स एव शिरसा सरसीरुहाणि ॥ ४३ ॥

यो भृङ्गानां क्लिश्यतां पद्मकोशकारागारे मोक्षमर्कश्चकार ।
तन्मालिन्यादेव नोपेक्षतेऽसौ प्रायः साधुः सर्वलोकोपकारी ॥ ४४ ॥

अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ४५ ॥
उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
रचयतितरां स्वैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ४६ ॥
आगत्य संप्रति वियोगविसंस्थुलाङ्गी-
मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ४७ ॥