पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।


खगात्पञ्चाक्षतिर्यञ्चः परिच्छेदे तृतीयके ।
त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥
पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे ।
जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥
सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे ।
अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥

अथ प्रतिद्वारवृत्तानि ।
तत्रादिमपरिच्छेदे सुबोधार्थं विशेषतः ।
वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥
सूर्यस्यान्योक्तयः पूर्वं सामान्येन्दुसदुक्तयः ।
वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥
द्वितीया द्विजराजोक्ती राकारात्रिकरोक्तयः ।
शनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ॥
ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः ।
सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥
प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिर्ध्रुवोक्तयः ।
कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ॥

अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः ।
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६ ॥
[१]खद्योतो द्योतते तावद्यावन्नोदयते शशिः ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ३७॥


  1. 'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न
    चन्द्रमाः ॥' इत्यपि पाठान्तरम्.