पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहमर्थस्याऽनात्मत्वोपपादनम् । अस्याग्रहात्स्वयंज्योतिर्भिन्नोऽतो जागरेऽस्मृतेः ॥७८॥ सुप्तिकालानुभूतात्मैक्याध्यासान्निश्चयोऽहमः । अहमस्वाप्समित्यात्मैक्यारोपेणापि सम्भवेत् ॥ ७९ ॥ अविद्योपाधिकं सुप्तौ चैतन्यमनुभूय तत् । भव: । न चेच्छादिगुणविशिष्ट एवमहमथ गृह्यत इत्यत्र न नः संप्रति पत्तिरिति चाच्यं गुणिग्रहणस्य गुणग्रहणव्याप्तत्वात् अन्यथा रूपा दिहीनोऽपि घट: प्रथेत न च रूपादिरहितानां तेषामसत्वं तत्र बी जमिति वाच्यं पूर्वनाशाग्रेिमरूपानुत्पत्तिलक्षणाद्यक्षणादौ तद्विनापि सत्त्वातू एवं च गुणाग्रहणे कथं गुणिग्रहणं तथा च निर्गुण एवात्मा गृह्यते इति स्वीकर्तव्यं अनुभवाभावे च न तस्य जागरे परामर्शः तथा चाज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहङ्कारो भिन्नः ए वमेवात्मान्यत्वे सिद्धे अख्वप्रकाशत्वसाधने नान्योन्याश्रय इतेि ता ४८ ननु यद्यहमर्थो न परामृश्येत तद्येतावन्तं कालं सुप्तोऽहमन्यो वेति संशयः स्यात् नत्वहमेवेति निश्चय इति चेन्नेत्याह“सुप्तीति'। यथा पूर्वदिनानुभूतदेवदत्तभिन्नतया अनुभूते चैत्रे सोयं नवेतेि न संशयः किं तु स एवेति निश्चयः तथा सुषुप्तिकालानुभूतात्मैक्या ध्यासात्स एवाहमिति निश्चयो युज्यते इत्यर्थः । नन्वेवतावन्तै कालमर्ह स्व पश्यन्नासं जाग्रदासमेित्यत्रेवाहमस्वाप्स्समित्यत्राप्यहसंशे परामर्शत्वानुभवात्कथं तत्रापरामर्शत्वमित्याशङ्का समाधत्त अहमिति? । परामृश्यमानात्मैक्यारोपातज्ज्ञानांशे परामर्शत्वा भिमानात् । नचापरामर्श परामर्शत्वारोपो न दृष्ट इति. वाच्यं तद्भि न्ने तत्वेनानुभूयमाने परामर्शत्वारोपदर्शनादित्यर्थः ॥ ७९ ॥ नन्वहम चैतन्यं वा, आद्ये थोऽहमकार्ष सोऽहं सौद्धिकाशानादि स्मरामीत्यनु