पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जडभेदो विजातीयः सजातीया चितो भिदा । ज्ञानानन्दादिधर्माणां भेदः स्यात्वगता िभदा॥ ९२॥ यद्वाऽद्वितीयशब्देन सजातीयस्य वर्जनं । एकावधारणाभ्यां तु यथेष्टं शिष्टवर्जनं ।। ९३ ॥ यद्वाऽद्वितीयशब्देन भेदत्रयनिषेधनात । एतत्तूयनिषेधेन ब्रह्माद्वैतपरा श्रुतिः । प्रपञ्चगतमिथ्यात्वानुमानं बहु मन्यते ॥ ९५ ॥ नामरूपादिमुक्तः सन्शोकं तरति तत्त्ववित् । कृते भेदप्राप्ति विभज्य दर्शयति-“ जड़भेदइति ॥९२॥ यदि चास्य गोर्द्धितीयोऽन्वेष्टव्यइत्युक्त गौरेव द्वितीयोऽन्विष्यते नाश्वो न गर्दभ इति महाभाष्यानुसारात्सजातीयद्वितीयपरत्वै द्वितीयशब्दस्य तदा द्वितीयशब्दस्य जीवभेदनिषेधपरत्वं विजातीयखगातभेदनिषे धपरत्वं तु एकावधारणपदयोर्यथेष्टं व्याख्येयमित्यभिप्रेत्याह--

  • यद्वेति ' ॥ ९३ ॥

पक्षान्तरमाह -“ अथवेति ? ॥ ९४ । प्रकृतमुपसंहरात --

  • एतदिति ॥ ९५ ॥

॥ सर्वाद्वैतश्रुतेः प्रत्यक्षाद्रिविरोधोद्धारः ॥

  • तर(१)ति शोकमात्मवित्,' तथा(२)विद्वान्नामरूपाद्विमुक्तः ,

भिद्य(३)ते हृदयग्रन्थिाश्छिद्यन्ते सर्वसंशया: । क्षीयन्ते वा . ( १. ) इष्टान्दीग्ये ७ । १ । ३ । ( २ ) रुकै ५ । २ ८ । ( १ ) कवि ३ । २ । ८ (