पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वसत्वे दृग्दृश्यसम्बन्धानुपपत्तिवृत्तेरुपयोगनिरूपणञ्च । ४५ चिज्ज्ञानेनैव बाध्यं तन्न चितोऽतः पृथङमनाक् ॥४८॥ विश्वस्याध्यासिक-त्वेपि प्रातिभासिकवस्तुतः । वैलक्षण्यं पुरा वृत्तेश्चिद्ध्यस्तं घटादि यत् ॥ ४९ ॥ इन्द्रियदृारतश्चित्तं तत्संयुक्त घटादिकं । मानाधिष्ठानचैतन्यानुविद्धतया प्रतीयमानमप्यस्त्येव तस्माज्जगत्स त्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिर्टद्वैवेति भावः ॥ ४८ ॥ ननु विश्व स्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीना या: प्रतिकर्मव्यवस्थाया अनुपपत्तिरिति चेन्मैवमित्याह-* विश्व स्येति ?' । वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासि कस्थलापेक्षया वैलक्षण्यात्प्रतिकर्मव्यवस्था सिद्धयत्येवेत्यर्थः ॥ ४९ ॥ ॥ विश्वसत्यत्वे दृग्दृश्यसम्बन्धानुपपत्तिः ॥ अन्तःकरण चक्षुर्वेत्तेजोवयवेि तच्चेन्द्रियद्धारेण तत्संयुक्त वि

  • षयं व्याप्य तदाकारं भवति यथा नद्याद्युदकं प्रणाड्या निःसृत्य

केदाराद्याकारं भवति सैव वृत्तिरित्युच्यतइत्याह-“इन्द्रियद्वार त इति' । तत्र जीवचैतन्यमविद्योपाधिकं सत्सर्वगतं अन्तःकर रणोपाधिवकं सत्परिच्छिन्नमितिमतद्वयं, तत्राद्ये विषयावभासक जी घचैतन्यं द्वितीये ब्रह्मचैतन्यं आद्यपक्षेपि जीवचैतन्यमविद्यानावृ तमावृतं वा तत्राद्ये वृतिजबचैतन्यस्यं विषयोपरागार्था, द्वितीये त्वावरणाभिभचार्था, परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्र काशकतदधिष्ठानचैतन्याभेदाभिव्याक्तिासिद्धयै, अनावृतत्वपश्रेहान्ना वृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्यैवोपरज्यते न तु धि षयैः असङ्गत्वातू यथा गोत्वै सर्वगतमपि सास्रादिभद्यक्तयाऽभिव्य ज्यते न तु केशरादिमद्यक्तया इत्याद्युपपादितं प्रत्यक्तत्वचिन्तामणौ