पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे आत्मैवाज्ञानहानिः स्याद्विकल्पस्तत्र नेष्यते ॥ २ ॥ तत्रोपलक्षणस्यैव साध्यत्वेनास्ति साध्यता । नचोपलक्षणध्वस्त्या ध्वस्तिर्मुक्तेरपीष्यते ॥ ३ ॥ पाके निवृत्ते नो दृष्टा निवृत्तिः पाचकस्य वा । तदुक्तं शास्त्रसिद्धान्तरहस्यतरवेदिभिः ॥ ४ ॥ निवृत्तिरात्मा मोहस्य ज्ञातत्त्वेनोपलक्षितः । उपलक्षणनाशेपि स्यान्मुक्तिः पाचकादिवत ॥ ५ ॥ ज्ञानात्पूर्वमसिद्धस्याप्युपलक्षणता न हि । पाकसम्बन्धतः पूर्व पाचकोऽस्तीति नेोच्यते ॥ ६ ॥ उपलक्ष्यस्वरूपस्यासाध्यत्वेऽप्युपलक्षणे ।

  • वाक्यजेति चतुर्भिः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥

ननु वृत्युपलक्षितस्य पश्चादिव पूर्वमपि सत्वेन मोहकालेपि तद्धान्यापत्तिरिति तत्राह-* ज्ञानादिति ? ॥ ६ ॥ ननु यदि पाककर्तृत्वमेव पाचकत्वं तदा अपचति तत्प्रयोगो भूतपूर्वन्याये ौपचारिकः तु पाककर्तृतावच्छेदकावच्छिन्नत्वं तत्कर्तृत्वा थांदं त्यन्ताभावानधिकरणत्वं वा तद्वयमपि पश्चादस्ति नचैवं मुक्तौ क्षा त्मातिरिक्त योग्यत्वादिकमस्ति चिन्भात्रं तु प्रागप्यस्तीत्यसाध्यता पत्ति: पाकोपलक्षितत्ववद्वत्युपलक्षितत्वस्याधिकत्वे सविशेषताप त्तिरित्याशङ्काह-* उपलक्ष्यते' । उपलक्ष्यस्वरूपस्य चिन्मा ऋत्यासाध्यत्वेपि चरमवृत्तिरूपोपलक्षणमालसाध्यत्वेनोपलक्षितसा