पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे नोपजीव्यविरोधोपि शङ्कयो यस्मान्न बाध्यते । उपजीव्यं स्वरूपं यद्वक्ष्यते तद्विलक्षणं ॥ ५७ ॥ मिथ्याभूतेन सम्यग्धीर्जन्यते प्रतिबिम्बत् । ध्वनिधर्मविशिष्टैश्च वणैः शाब्दी प्रमा यथा ॥ ५८ ॥ प्रामाण्यं रूपतो मिथ्या तदर्थो न मृषा भवेत् । सर्वबाधावधित्वेन ब्रौव विषयो यतः ॥ ५९ ॥ त्स्यादेव न तद्विरोधादनुमानागमयोः प्रामाण्यं सत्स्यतीत्याशङ्क निराचष्ट–“ नोपजीव्येति ? । यत्स्वरूपमुपजीव्यते तन्न बा भ्यते बाध्यते च तात्विकत्वाकारः स च नोपजीव्यते कारणत्वे तः स्याप्रवेशात् अतो नोपजीव्यविरोध इत्यर्थः ॥५७॥ ननु मिथ्याभूतेन वेदेन कथं सम्यग्ज्ञानं जन्यत इत्यत आह -“मिथ्येति” । ॥ ६८ ॥ ननु शानप्रामाण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं स्यातू शु क्तिरूप्यशाने तथात्वदर्शनात् प्रकृते ऽप्यद्वैतसिद्धये प्रामाण्यस्य मि थ्यात्वे वक्तव्ये विषयस्यापि मिथ्यात्वं स्यादित्याशङ्काह

  • प्रामाण्यमिति ” । न विषयमिथ्यात्वे

प्रामाण्यांमथ्यात्वं हि प्रयोजकं भ्रमप्रमाबहिर्भूतनिर्विकल्पके बाधाभावातू किन्तु तद्भा धवति तत्प्रकारकत्वादिरूपमप्रामाण्यमेव तथा तञ्च प्रकृते नास्त्येव अबाधितार्थविषयत्वं हि यत्प्रामाण्यं तस्य मिथ्यात्वं प्रकृते नार्थ बाधात् तद्बाधकप्रमाणासम्भवात् तस्य सर्वबाधावधित्वातू किन्तु तद्विषयत्वरूपसम्बन्धबाधात् तथा चाबाधितार्थविषयत्वरूपप्रा माण्यमिथ्यात्वेऽपि नाथ मिथ्या विशिष्टस्यैकांशामिथ्यात्वेऽप्यपरां शसत्यत्वातू यथा दण्डबाधनिबन्धनदण्डिपुरुषबाधेऽपि पुरुषो न बाधित एव मत्रापि द्रष्टव्यमिति तात्पर्यार्थः ॥ ५९ ॥ । प्रत्यक्षस्योपजीव्यत्वभङ्गः ॥