पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [३ परिच्छेदे तत्साक्षात्कारसिद्धयथै श्रवणादि विविच्यते ॥ २ ॥ श्रवणं मननं ध्यानमनुष्ठेयतया श्रुतम् । त्रितयं श्रवणं तत्र प्राधान्यादङ्गितां व्रजेत् ॥ ३ ॥ तदङ्गित्वं प्रमाणस्य प्रमेयावगमं प्रति । सिद्यत्यव्यवधानेन तदङ्गत्वं तयोर्डयोः ॥ ४ ॥ चित्तस्यैकाग्रताद्वारा संशयादिनिरासतः । प्रत्यक्प्रावण्यहेतुत्वं भजेतां ध्यानचिन्तने ॥ ५ ॥ विचारः शब्दशक्तयैकतात्पर्यस्यावधारणम् । त्मकं फलं श्रवणैकसाध्यमित्यर्थः ॥ २ ॥ ३ ॥ एतदेध विवरणोक्त रीत्या द्रढयति -“ तदङ्गित्व ' निष्कर्षः मिति । तद्यं श्रध णमङ्गि प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानातू मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारनिष्पक्षतदेकाग्रवृत्तिकार्यद्वारेण - हानुभवहेतुतां प्रतिपद्येते इति फलोपकार्यङ्ग इति ॥ ४ ॥ ५ ॥ ननु श्रवणं तावद्विचाररूपं शाब्दशाने न करणं वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्क्षा नरूपे वा करणे इतिकर्तव्यतामात्रत्वादिति चेस्तत्राह--“विचार'; इतेि । शब्दशक्तितात्पर्यावधारणं तावद्विचारः अवधृतशक्तितात्प व्यतात्वाभावादङ्गित्वनिर्णयातू तथा च तात्पर्यावधारणरूपस्य विचारस्याङ्गित्वं । नन्वाकाङ्गादिसहितशब्दज्ञानस्यैव करणत्वस प्रवेशे मननादेरपि तत्कोटिप्रवेशःस्यादिति शाङ्क निरस्यति

  • नाकाङ्क्षादीति.” । एतदुक्तं भवातेि एवं ह्याकाङ्काद्विधियो