पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ सव्याख्याद्वैतसिडिसिद्धान्तसारसङ्ग्रहें तृतीयः परिच्छेदः प्रारभ्यते । श्रवणादिपरा नित्यं यं चिदानन्दमद्वयम् । साक्षात्कृत्य कृतार्थाः स्युस्तं सदा नौमि केशवम् ॥ १ ॥ एवं व्यवस्थिते ब्रह्मतत्वैकात्म्ये प्रमाणतः । थस्यानन्दसमुद्रस्य ब्रह्मानन्दादयो लैवाः । तं प्रणौमि चिदानन्दं मुकुन्द स्वेष्टदैवतम् ॥ १ ॥ शान्तिदान्त्यादिसम्पन्नाः श्रवणादिपरायणाः । । चिन्तयन्ति यमानन्दमाश्रये तं परै हरिम् ॥ २ ॥ तदेवं ब्रह्मात्मैक्यरूपे वेदान्तप्रमेये व्यवस्थिते तत्साक्षात्काराय मुमुक्षुभिरनुष्ठेयं श्रवणादिसाधनमङ्गाङ्गिभावेन चेिवेत्कु स्वेष्टदेव शानुसन्धानात्मकं मङ्गलमाचरन् उपक्रमते-* श्रवणादीति '। --तत्राङ्गित्वेन श्रवणं विधीयते इत्याह-* एवमिति द्वाभ्यां ।

  • आत्मा वा अरे द्रष्टव्यः श्रोतव्य ' इत्यत्र प्रमेयावगमः प्रति साक्षा

दव्यवधानेन श्रवणस्यैव विधानातू 'मन्तव्यो निदिध्यासितव्य' इ त्यत्र दर्शनं प्रति श्रवणभपेक्ष्य मननिदिध्यासनयोव्यैवधानादङ्गत्वं निश्चीयते इत्याह -* प्राधान्या ' दिति ! तत्वसाक्षात्कार