पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मनो विभुत्वोपपादनम् । उत्क्रान्त्यादिर्धियो धर्मस्तत्सत्त्वे तस्य सम्भवः ॥९५॥ उत्क्रान्त्याद्याः सुखाद्याश्च यावन्मोहं भवन्ति ते ॥९६॥ तत्वसाक्षात्कृतौ बुद्धयाद्युपाधिविलये सति । उत्क्रान्त्याद्याःसुखाद्याश्वशुद्धे सन्ति न कर्हिचित् ।॥९७॥ येनाऽऽत्मनापि यद्रुध्यवच्छिन्नेन न कर्म यत् । कृतं तेनैव तद्युद्धावच्छिन्नेनैव भोजनं ॥ ९८ ॥ दज्ञानं यथा यथं सर्वस्यापि व्यवस्था समर्थनीयेति भावः ॥९५॥९६॥ ननु 'तेन प्रद्योतेनैष आत्मा निष्क्रामति ' इत्यात्मनिष्ठत्वश्रुते नसिद्धि: अन्यथा मोक्षादिकमपि बुद्धेरेव स्यातू नाऽपि श्रुत्या बु दूध्युपाधिकगत्यादिविषयत्वं सम्भवति * तद्यथाऽनः सुसमाहितमु त्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्ज न्यातीति ' स्वाभाविकगत्याश्रयशकटदृष्टान्तोत्तेरित्याशङ्कौष इति बुद्ध्युपरमेन तन्निष्ठत्वस्यासम्भाविततया वैषम्यादित्यभिप्रेत्याह-- तत्वसाक्षात्कृताविति ?' ॥ ९७ ॥ नन्वात्मनो व्यापकत्वे सर्वाणि शरीराणि सर्धस्यैव भोगायतनानि स्युः तथा हि सर्वशरीरे न्द्रियादीनां. सर्वदा सर्वात्मसंयुक्तत्वात्कर्मणामपि साधारण्देहा दिकृतत्वेन असाधारण्यायोगातू अहन्त्वारोपादेरपि नियामकमूलस म्बन्धादेरभावे नैयत्यायोगादित्याशङ्का तवापीश्वरस्य व्यापकत्वेन सर्वशरीराणां तद्भोगजनकत्वापत्ते: समानत्वान्न च तदद्दष्टाजन्य त्वात्तत्संयुक्तत्वेऽपि न तत्र भोगजननै तहहापि सममित्यभिप्रेत्याह

  • येनेति ११ । यदुद्धयवच्छिन्नेन येनैवाऽऽत्मना यत्कृतं तद्व

च्छिन्नेन तनैव भोजनातू नह्यात्मनो व्यापकस्यापि निरवयवस्य प्रदे शोऽस्ति न च कर्मणामेव कथमसाधारण्यं पूर्वतत्कर्मजन्यत्वातू एवमनादितैव शरणं अन्यथा ईशात्मनि तवाप्यगतेरिति तात्प