पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धिः । तद्दृष्टान्तेन तत्वैक्यं लक्षणैक्यात्प्रतीयते । प्रतिबिम्बत्वसद्भावे निर्णता युक्तयो बुधैः ॥ ९१ ॥ । अनाद्युपाधिनाऽनादिजीवस्यानादिसंसृतिः । तत्त्वज्ञानेन तद्वराधाजीवो ब्रह्रैव सिद्यति ॥ ९२ ॥ तदेवं प्रतिबिम्बस्य बिम्बेनैक्ये व्यवस्थिते । ब्रहौक्यं जीवजातस्य सिद्धं तत्प्रतिबिम्बनात ॥९३॥ नित्यः सर्वगतोहेष महानज इति श्रुतेः । दाष्टौन्तिके फलितमाह--* तद्दृष्टान्तेनेति ?' । जीवस्य धा कृतं न ऽत्रास्तीत्याह-“प्रतिबिम्बत्वेति'॥९१॥ तत्प्रयासो नन्वनादेर्जीवस्य नोपाध्यधीनं प्रतिबिम्बत्वं किं तु तदनधीनत्वेसतेि तत्सदृशत्वं तञ्च भदव्याप्तमिति विरुद्धो हेतुः उक्त हि सूत्रकृता

  • अन(१)एव चोपमा सूर्यकादिति तत्राह -* अनादीति ? । उ

पाध्यधीनत्वं हि उपाधौ सत्येव सत्वं तञ्च नानादित्वविरोधि अना द्युपाधिना अनादिजीवस्यापि तत्सम्भवातू अत एव प्रतिबिम्बपदस्य भदसादृश्यार्थकत्वमादाय विरुद्धत्वोक्तिर्हतावयुक्तोति तात्पर्यार्थः ॥ ९२ । फलितमुपसंहरति-“ तदेवमिमांते ' ॥ ९३ ॥ ॥ बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धि: ॥ नन्वणुत्वाज्जीवस्य कथं व्यापकादीशाद्भेद् इति चेन्मैव मित्याह

  • नित्य इति ' । जीवो नाशुः प्रत्यक्षगुणाश्रयत्वात्प्रत्यक्षत्वाच

घटवत् आत्मत्वाद्भूतत्त्वाचे शवदित्याद्यनुमानैश्च जीवानणुत्वसिद्धे: ( { ) ब्र० सू० ३ { २ ! १८ ।