पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे तात्पर्य वाक्यभेदः स्यादन्यथा श्रुतिमौलिषु ॥ ९९ ॥ यः सर्वज्ञ'इति श्रुत्या ब्रह्मतत्वं निवेदितम् । तटस्थलक्षणद्वारा तात्पय्यन्नाप्युपासनम् । १ ० ० ।। न च ज्ञाने विधिः शङ्कयोऽप्यग्रे तस्य निषेधनात् । आत्मप्रावण्यसिध्यै तत्कथनं कुत्र चिन्मतम् ॥ १ ॥ अथ योऽन्यामिति श्रुत्या भेददर्शननिन्द्य । नोपास्तिरुच्यते तत्र न सवेदेति निन्दनम् ॥ २ ॥ आनन्दाद्या इति न्यायेऽरवण्डवाक्यार्थसिद्धये । वाच्यार्थस्योपसंहारान्नोपास्यत्वस्यसम्भवः ॥ ३ ॥ विपक्षे बाधकमाह--*अन्यथेति' ॥ ९९ ‘यः सर्वज्ञः स स - वैचि'दित्यादावुपासनाप्रकरणस्थत्वाभावेऽपि तटस्थलक्षणद्वारा ब्रह्म प्रतिपादने तात्पर्येण विशेषणे अतात्पर्यातू अन्यथा एकविज्ञानेन स वैविज्ञानप्रतिज्ञाविरोधापतिः स्यादित्याह--* यः सर्वज्ञ ' इति ॥ १०० ॥ न चव झाने विधि स्तस्य निराकरिष्यमाणत्वा स्र चव विधि श्रुत्यानर्थक्यं बाह्याविषयात्पररावत्र्य चित्तस्य प्रत्यगात्मप्रवणतास पादकत्वादित्याह--* न चेति ॥ १ ॥ * अथ योन्यां देव तामुपास्त’ इत्यादेर्न स वेदेत्युतरवाक्यपर्यालोचनया भेददर्शन निन्दापरतयोपस्तिपरत्वशङ्गेव नास्तीत्याह--“ अथेति ॥ २ ॥* आनन्दादयः प्रधानस्यति' सूत्रेण लक्ष्याखण्डवाक्यार्थसि द्धार्थे वाच्यवाक्यार्थोपसंहारस्य क्रियमाणत्वनोपास्यत्वानुपपत्ति रित्याह-“ आनन्दाद्या ' इति ॥ ३ ॥ व्यतिहारसूत्रे च