पृष्ठम्:अद्भुतसागरः.djvu/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
राहोरद्भुतावर्त्तः ।

पाञ्चालान् विकलाँश्च पीडयेदन्नं चापि निहन्ति कर्कटे ॥

 सिंहे पुलिन्दगणमेकलसिन्धुयुक्तान्[१]
  राजपोमान् नरपतीलन् वनगोचराँश्च ।
 षष्ठे तु शस्यकविलेखकगेयसक्तान्
  हन्त्यश्मकत्रिपुरशालियुताँश्च देशान् ॥
तुलाधरेऽवन्त्यपरान्त्यसाधून् वणिग्दशार्णान् मरुकच्छपाँश्च ।
अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥
 धन्विन्यमात्यवसुधाजि[२] विदेहमल्लान्
  पाञ्चालवैद्यवणिजो विषमायुधज्ञान् ।
 हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान्
  मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥
 कुम्भेऽन्तर्गिरिजात्यपश्चिमजनान्[३] भारोद्वहाँस्तस्करान्
  आभीरान् दरदार्यसिंहलजनान्[४] हन्यात् तथा वर्वरान् ।
 मीने सागरकूलसागरभवद्रव्याणि [५]माल्यान् जनान्
  प्रज्ञान् वार्युपजीविनः शुभकलं कूर्मोपदेशाद्वदेत् ॥

अथ नक्षत्रफलं वटकणिकायाम् ।

 कूर्मविभागेन वदेत् पीडां देशस्य वीक्ष्य नक्षत्रम् ।

पराशरस्तु ।

 अश्विन्यामश्चानश्वजीविनश्च । याम्ये कलिङ्गात् दक्षिणाँश्चोपतापयति । कृत्तिकासुकलिङ्गमत्स्याधिपतीन् । रोहिण्यां क्षुच्छस्त्रकोपैः प्रजाः। मृगशिरसिशात्वनिषादकैकेयान् । रौद्रैशकान् कुकुरान् पल्व-


  1. सत्ते युक्तान् इति अ. ।
  2. वरत्राजि - इति अ. । वरराजि - इति ख. ।
  3. अन्तर्गिरिजान् सपश्चि- इति अ. ।
  4. सिंहपुरकान् इति अ.
  5. वन्यान् इति अ. । मान्यान् इति ख. ।