पृष्ठम्:अद्भुतसागरः.djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
अद्भुतसागरे ।

 भयमेति तथैक्ष्वाकुर्माया च सह मालवैः ॥
 कार्पासतिलमुद्गानां शाखानां च महीरुहाम् ।
 सुभिक्षं जायते तत्र उत्तरा बलवत्तराः ॥

पराशरः ।

 ज्येष्ठे ज्येष्ठनृपनृपपत्नीगणमुख्यशस्योपद्रवाय ।

वृद्धगर्गस्तु ।

 ज्येष्ठाः श्रेष्ठाश्च पीड्यन्ते ज्येष्ठ्यामुपगते ग्रहे ।

वराहसंहितायां तु ।

 ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः
  शस्यानि वृष्टिश्च महागणाश्च।
 प्रध्वंसमायान्ति नराश्च सौम्या:
  सान्त्वैः[१] समेताश्च निषादसंज्ञाः॥

वृद्धगर्गस्तु ।

 आषाढपौर्णमास्यां तु गृहीते रजनीकरे ।
 क्वचिद्वर्षति पर्जन्यस्तथा शाल्वं निपातयेत् ॥

पराशरस्तु ।

 शाल्वनिषादवृष्टिशस्यन्नमाषाढे ।

वराहसंहितायां तु ।

आषाढपर्वण्युदपानवप्रनदीप्रवाहान् फलमूलवर्त्तान् ।
गान्धारकाश्मीर पुलिन्दचीनान् हतान् वदेन्मण्डलवर्षमस्मिन् ॥

वृद्धगर्गः ।

 श्रावण्यां पौर्णमास्यां तु गृहीते रजनीकरे ।
 योगक्षेमविनाशश्च शस्यनाशश्च जायते ॥

पराशरस्तु ।
श्रावणे च क्षेममुभिक्षमन्यत्र चीनकाश्मीरपुलिन्दगान्धारेभ्यः ।


  1. सौख्यैः इति ख. । साल्वैः इति अ. ।