पृष्ठम्:अद्भुतसागरः.djvu/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
अद्भुतसागरे

तथा व वराहसंहितायाम् ।
 प्रोक्तस्थानाभावादुदगुच्चः [१]शस्यवृद्धिवृष्टिकरः-इति ।
अन्यथा प्रोक्तस्थानाभावादित्यनर्थकं स्यात् ।
गार्गीये त्ववाक्शिरोलक्षणमन्यथा तद्यथा ।

 दक्षिणेन स्थूलकायो हीनकायस्तथोत्तरे ।
 अवाक्शिरसि चन्द्रेऽस्मिन्नचिरान्नक्षतिः क्षितिः ॥

भीष्मपर्वणि कुरुपाण्डवसेनाक्षयनिमित्तम् ।

 अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः ।

अथ संकटं गार्गीये ।

 तीक्ष्णसंकटशृङ्गाग्रो रोगशस्त्रक्षुधावहः ।

वृद्धगर्गस्तु ।

 सगताभ्यां समाभ्यां च तीक्ष्णग्राभ्यां यदा शशी ।
 दृश्यते संकटस्थानं रोगशस्त्रक्षुधाकरम् ॥

अथ कुण्डम् । तत्र गर्गः ।

 अच्छिन्ना मण्डले रेखा शशिनो दृश्यते यदा ।
 कुण्डाख्यं नाम तत् स्थानं नृपविग्रहदायकम् ॥

वराहसंहितायाम् ।

 अव्युच्छिन्ना रेखा समं ततो मण्डले च कुण्डाख्यम् ।
 तस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥

अथ दण्डः । तत्र पराशरः ।

 दण्डवद्दण्डस्थायी दण्डकृत् प्रजानाम् ।

गर्गवृद्धगर्गौ तु ।

 चन्द्ररेखा यदा चोर्ध्वा भवेद्दण्डवदायता ।
 उदक्छृङ्गाधिका चैव दण्डस्थानं तदुच्यते ॥

वृद्धगर्गः ।

 उद्युक्तदण्डा राजानो विनिघ्नन्ति समन्ततः ।


  1. क्षेमवृद्धि - इति अ. ।