पृष्ठम्:अद्भुतसागरः.djvu/७५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५१
पाकसमयाद्भुतावर्त्तः ।

 पित्र्यान्मासः षट् षट् त्रयोऽर्धमष्टौ च त्रिषडेकैकाः ।
 मासचतुष्कोऽषाढे सद्यः पाकाऽभिजित्तारा ॥
 सप्ताष्टावध्यर्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः ।
 श्रवणादीनां पाको नक्षत्राणां यथासङ्ख्यम् ॥
निगदितसमये न दृश्यते चेदधिकतरं द्विगुणे प्रपच्यते तत् ।
यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद्द्विजैश्चशान्त्या” [१]

मयूरचित्रे ।

 लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते ।

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 "अद्भुतेऽत्र समुत्पन्ने यदि वृष्टिः शिवा भवेत् ।
 सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत्" [२]

वटकणिकायाम् ।

 यदि निर्विकारसम्भः पर्यन्यस्त्यजति सप्ताहात् ।
 प्रशममुपगच्छति तत् त्रिविधोत्पाते समादेशः ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पाकसमयाद्भुतावर्त्तः ।
इत्यद्भुतसागरः समाप्तः ।
श्रीरस्तु शुभमस्तु ॥


  1. सर्वत्रास्मिन् ग्रन्थे बृहत्संहितायां वचनानां प्रमाणत्वादत्र प्रत्यस्त्रटितवचनाम्यवगम्य तस्याः (बृहत्संहितयाः) स्तान्युद्धृत्य रक्षितानि ।
  2. ३.२९ अ. १०-११ श्लो. ।