पृष्ठम्:अद्भुतसागरः.djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
अद्भुतसागरे

मृदङ्गरूपो मध्ये मृदङ्गवत् स्थूल:।
यथा । चन्द्रशुभलक्षणे गर्गः ।

 मृदङ्गमध्यः सोमो वा सौम्यायां चेन्नतो दिशि

अथाशुभसंस्थानानि तत्र दुष्टलाङ्गलमाह गार्ग्यः ।

 दक्षिणं चोन्नतं शृङ्गं न्यूनं तस्य तथोत्तरम् ।
 दुष्टलाङ्गलसंस्थानं प्रजाक्षयकरं स्मृतम् ॥

उन्नतमिति अर्धोन्नतमित्यर्थः ।
तथा च पराशरः ।
 अर्धोन्नतदक्षिणोन्नतशृङ्गो दुष्टलाङ्गलः पुरसैन्योद्योगनाशकृत्-इति ।
पुरसैन्ययोरुद्योगनाशः ।
तथा च वराहसंहितायाम् ।

 दक्षिणविषाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत् ।
 [१]पाण्डानरेश्वरनिधनकृदुद्योगकरं बलानां च ॥

गार्गीये ।

 नीचमुत्तरशृङ्गं स्याद्दक्षिणं चोन्नतं यदि ।
 सैन्योद्वेगकरं स्थानं तदिन्दोर्दुष्टलाङ्गलम् ॥
 पाण्ड्यस्य नृपतेर्मृत्युं कुर्याच्चन्द्रस्तथोदितः ।

वृद्धगर्गः ।

 दक्षिणं शृङ्गमुद्यम्य नीचमस्य तथोत्तरम् ।
 सेनोद्योगकरं स्थानं कुरुते दुष्टलाङ्गलम् ॥
 दक्षिणाः पश्चिमाश्चैव विजयन्ते तथास्थिते ।
 वैश्यशूद्राभिवृद्धिश्च शस्त्रमृत्युश्च जायते ॥
 बाह्लीकयवनायोध्याँस्तुषाराँश्च समालवान् ।
 शूरसेनाँश्च निर्हन्ति चन्द्रश्चैव तथोत्थितः ॥


  1. पाण्ड्यो देशविशेषः । तद्देशभवनरेश इति ।