पृष्ठम्:अद्भुतसागरः.djvu/७३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३१
मिश्रकाद्भुतावर्त्तः ।

 वैश्रवणाय स्वाहा । यक्षाधिपतये स्वाहा । हिरण्यपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा । इति व्याहृतिभिर्हत्याऽथ साम गायेत् ।

 स पृथिवीमन्यावर्त्तते । अथ यदाऽस्य पृथिवी रटति स्कुटति कम्पति ज्वलति तुदति धूमावत्यकस्मात् सलिलमुद्विरति प्लवते मज्जति भग्नमुत्प्लवत्यकाले च पुष्पफलमभिनिर्वर्त्तयत्यश्वतरीषु गर्दभा जायन्ते हस्तिनी माद्यति भूकम्पा जायन्ते यत्र तत्र राजा विनश्यति गौर्गृहमारोहते ग्रामं महिषीत्येवमादीनि सर्वाण्यग्निदैवतान्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 अग्निं दूतं वृणीमहे[१]- इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

 अग्नये स्वाहा । हविःपतये स्वाहा । अर्चिःप्राणाय स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा इति व्याहृतिभिश्च हुत्वाऽर्थ साम गायेत् । चतुर्विधां दक्षिणां दद्याद् गां भूमिं हिरण्यं धान्यं च ततः संपद्यते शुभमिति ।

 सोऽन्तरीक्षमन्वावर्त्तते । अथ यदाऽस्य निर्वाते नभस्यनभ्रेऽनात्मरूपाणि दृश्यन्ते स्वरकरभकबन्धकङ्ककपोतकाकगृध्रश्येनभासवायसगोमायुसंस्थान्युपरि पांसुमांसपेस्यस्थिरुधिरवर्षाणि प्रवर्त्तन्ते काकमिथुनानि दृश्यन्ते रात्रौ मणिधनुर्दृश्यते शशका ग्रामं प्रविशन्ति वृक्षाः स्रवन्ति रुधिराण्याकाशे राजकुलं वसतीत्येवमादीनि तान्येतानि सर्वाणि वायुदैवतान्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 वात आवातु भेषजम्-[२]इति स्थालीपार्क हुत्वा पञ्चभिराज्याद्दुसिर्जुहोति ।

 वायवे स्वाहा । भूताधिपतये स्वाहा । शस्त्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा । एभिर्हुत्वाऽथ साम गायेत् ।


  1. ऋगवेदसंहितायाम् १ अष्टके ४ अ. १२ सू. १ ऋकु ।
  2. ऋग्यजुःसंहितयोनोपलभ्यतेऽन्यत्रान्वेषणीयोऽयं मन्त्रः ।