पृष्ठम्:अद्भुतसागरः.djvu/७३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३०
अद्भुतसागरे ।

स दक्षिणां दिशमन्वावर्त्तते । अथ यदाऽस्य प्रजायां पशुषु शरीरेष्वरिष्टानि प्रादुर्भवन्ति व्याधयो या अनेकविधयः । अतिस्वप्नातिभोजनाभोजनालस्यव्रणाजीर्णप्रमुखान्येवमादीनि तान्येतानि सर्वाणि यमदैवतन्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 नाके सुपर्णम्[१] -इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

 यमाय स्वाहा । प्रेताधिपतये स्वाहा । दण्डपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा-इत्याज्याहुतिभिर्दुत्वा सामगायेत् ।

 स प्रतीचीं दिशमन्वावर्त्तते । अथ यदाऽस्य क्षेत्रगृहसंस्थितेषु धान्येष्वीतयः प्रादुर्भवन्ति तथा चानेकविधा वा आखुपतङ्ग पिपीलिकाशुकशलभकाका इत्येवमादीन्येतानि सर्वाणि वरुणदेवत्यान्यनतानि तत्र प्रायश्चित्तानि भवन्ति ।

 घृतवती-[२] इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

वरुणाय स्वाहा । अपां पातपे स्वाहा । पाशपाणये स्वाहा-ईश्वराय स्वाहा। सर्वपापप्रशमनाय स्वाहा- इति हुत्वाऽथ साम गायेत् ।

 स उदीचीं दिशमन्वावर्तते । अथ यदाऽस्य कनकरजतवरवत्रवैडूर्यमुक्तामणिवियोगो भवत्यतिक्रूराणीव मित्राणि विरज्यन्ते । रिष्टानि वयांसि गृहमध्यासते वल्मीकानि भौमानि जायन्ते छत्राकं चोपजायते मधूनि वा नीलीयन्त इत्येवमादीनि सर्वाणि वैश्रवणदैवत्यान्यद्भूतानि तत्र प्रायश्चित्तानि भवन्ति ।

 अभित्यं देवम्[३]-इति स्थालीपकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।


  1. ऋगवेदसंहितायाम् ७ अष्टके ४ अ. ८६ सू- ११ ऋक् ।
  2. वाजसनेविसंहितायाम ३४ अ. ४५ क ।
  3. बाजसनेविसंहितायाम् ४ अ, २५ क ।