पृष्ठम्:अद्भुतसागरः.djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
अद्भुतसागरः

अथ संस्थानि तत्र नौसंस्थानमाह वृद्धगर्गः ।

 ईषन्मात्रोद्यतं शृङ्गं विशालः कुक्षिमान् स च ।
 शशी तत् खलु नौस्थानं क्षेमसौभिक्षकारकम् ॥

उभयमेव शृङ्गं यदा किञ्चिदुन्नतं भवति तदा नौस्थानं भवति ।
तथा च पराशरः ।

 नाभ्युच्छ्रितोभयं शृङ्गं कुक्षिमान् विशालो नौस्थानम् ।

गार्गीये ।

 नातिमात्रोन्नतः पीनो विशालः शुभमण्डलः |
 शुक्लः स्निग्धो यदा चन्द्रो नौस्थानं तदिहोच्यते ॥
 तत्र सर्वस्य लोकस्य सुखं स्यादुत्तरोत्तरम् ।
 नाविकानां भवेत् पीडा नौस्थानं शशिनि स्थिते ॥

शुभमण्डलः शोभनं छायामण्डलं यस्येति ।
भार्गवीये ।

 स्निग्धः पीनः सुवर्णाभः पक्षादौ यदि चन्द्रमाः ।
 नौस्थायी संप्रदृश्येत[१]वस्त्रवृद्धिं विनिर्दिशेत् ll

अथ लाङ्गलम् । तत्र पराशरः ।
 ईषदुन्नतोत्तरशृङ्गो लाङ्गलसंस्थानम् । तत् सुभिक्षक्षेमकारकम् ।
गार्गीये तु ।

 [२]नीचं स्याद्दक्षिणं श्रृङ्गं चन्द्रस्योन्नतमुत्तरम् ।
 तत् स्थानं लाङ्गलं नाम क्षेमारोग्यसुभिक्षकृत् ॥

 राज्ञां प्रीतिर्निर्निमित्तं पीडा लाङ्गलजीविनाम् ।

उन्नतमित्यर्धोन्नतम् ।
तथा xxxxहतायाम् ।
 अर्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन् ।


  1. वसुवृद्धिम् इति ख ।
  2. नतम् इति ख.।